________________
नानार्थार्णवसंक्षेपे खड्ने खड़विशेषे तु यादवो(र ? ऽन्व)र्थनामतः। अत्रापि पूर्ववत् सादि मस्तुलुङ्गस्तु पुनपोः ॥ ४८४ ॥ शिरःोहे नपि त्वेतद् दधिमण्डेऽथ पुंसि सः । मर्मरीकोऽनले शूरे द्वे तु श्येनेऽथ सा स्त्रियाम् ॥ ४८५ ।। मनोजवामिजिह्वासु सप्तखेकत्र * तत् पुनः। पितृधर्मणि पुत्रे द्वे समासाद्यत्र पूर्ववत् ॥ ४८६ ॥ मनोहरा तु पिप्पल्या स्त्री मनोहारिणि त्रिषु । मदोत्कटस्तु द्वे पारावतसंज्ञविहङ्गमे ।। ४८७ ॥ मदोत्कटा तु पार्वत्यां स्त्री चैत्ररथनामनि । महेश्वरालये या स्याद् वास्तव्या तत्र तत् पुनः ॥ ४८८ ॥ मदोद्धते त्रिषु मदकलस्तु द्विरदे पुमान् । मदोत्कटे समासादि पूर्ववत् स्याद् द्वयोः पुनः ॥ ४८९ ।। मल्लिकाक्षः सितैनॆत्रैर्युक्ते ज्ञेयस्तुरङ्गमे । हंसे च चञ्चुचरणैमल्लिकैरुपलक्षिते ॥ ४९० ॥ मलिम्लुचस्तु पुंस्यक्तोऽधिकमासे मनीषिभिः । गृहस्थेऽपश्चयज्ञे च तस्करे तु त्रिपु स्मृतः ॥ ४९१ ।। मशके शाबके च द्वे चातके रजकेऽपि च । मजुघोषाप्सरोभेदे समासाद्यत्र पूर्ववत् ।। ४९२ ।। मन्दसानस्तु नार्केऽग्नौ चन्द्रे जीवेऽप्यथ द्वयोः ।। हंसे महीपतिस्तु स्यान्नृपे भव्याख्यपादपे ॥ ४९३ ।। नात्रापि पूर्ववत् सादि महानर्मा पुनर्द्वयोः । मर्यजात्यन्तरे चार्याक्षत्र सादि पूर्ववत् ॥ ४९४ ॥
१. " ववत् स्यात् समासादि' ग. पाठ:. २. लि' ग. पाठः. ३. 'न्थे' ग. पाठः.
• 'सा' इति स्यात् । । 'मलिनैरुपलक्षिते' इति स्यात् ।