Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 395
________________ गयात्रालमानि ] यात्राप्रकरणम् ११ । ३७९ गुरुः–'यमारौ त्रिषडायस्थौ बुधजीवसितास्तदा। महाबलयुता योगो यातुरिष्टार्थदः सदा ॥' इति ॥ ६२॥ अथान्यद्योगयात्रालनमाह समुदयगे विबुधगुरौ मदनगते हिमकिरणे । हिबुकगतौ बुधभृगुजौ सहजगताः खलखचराः ॥६३॥ समुदयगे इति ॥ अस्य गाथाछंदः प्राग्वत्स्वमते ग्रंथांतरे च । समुदयगे लग्नस्थे गुरौ सति, हिमकिरणे चंद्रे मदनगते सप्तमस्थे सति, हिबुकं चतुर्थस्थानं तत्र गतौ बुधशुक्रौ स्यातां, खलखचरे पापग्रहे सहजं तृतीयस्थानं तत्र गते च सति, एवंविधे योगे वसुधापतिर्यदि याति रिपुवाहिनी तदा वशमेति । यदाह वराहः-'पापास्तृतीये हिबुके सितज्ञो जीवो विलग्ने मृगलांछनोऽस्ते । यस्योद्यमे तस्य बलं रिपूणां कृतं कृतघ्नेष्विव याति नाशम् ॥' इति ॥ ६३ ॥ अथान्ययात्रायोगमाहत्रिदशगुरुस्तनुगो मदने हिमकिरणो रविरायगतः । सितशशिजावपि कर्मगतौ रविसुतभूमिसुतौ सहजे ॥ ६४॥ त्रिदशगुरुरिति ॥ अस्य त्रिष्टुभि सुमुखीछंदः । तल्लक्षणं-'नजजलगैर्गदिता सुमुखी'। यथा बृहस्पतिर्लग्नगः स्यात् चंद्रः सप्तमे स्यात् शुक्रबुधौ दशमगतौ स्यातां सूर्य एकादशस्थः स्यात् शनिमंगलौ तृतीयस्थाने स्यातां एवंविधे योगे राज्ञो विजय एव । यदाह वराहः-'चंद्रेऽस्तगे देवगुरौ विलग्ने ज्ञशुक्रयोः कर्मणि लाभगेऽर्के । सौरारयोर्भातृगयोश्च याता नृपः स्वभृत्यानिव शास्ति शत्रून् ॥' इति ॥ ६४ ॥ अथान्यद्योगयात्रालग्नमाह देवगुरौ वा शशिनि तनुस्थे वासरनाथे रिपुभवनस्थे । पंचमगेहे हिमकरपुत्रः कर्मणि सौरिः सुहृदि सितश्च ॥६५॥ देवगुराविति ॥ अस्य त्रिष्टुभि श्रीछंदः । तल्लक्षणं च 'पंचरसैः श्रीमतनगगैश्च' पंचरसैः पंचभिः षभिरक्षरैश्च यतिः । गुरौ चंद्रे वा लग्नस्थे सति, सूर्य षष्ठस्थे बुधश्च पंचमस्थाने शनिर्दशमे स्यात् , शुक्रः चतुर्थस्थाने स्यात् , एवंविधे योगे जिगमिषो राज्ञो विजय एव । यदाह वराहः-गुरौ विलग्ने यदि वा शशांके षष्ठे रवौ कर्मगतेऽर्कपुत्रे । सितज्ञयोबंधुसुतस्थयोश्च यात्रा जनित्रीव हितानि धत्ते ॥' इति । जनित्री माता ॥ ६५ ॥ अथान्यद्योगयात्रालग्नमाहहिमकिरणसुतो बली चेत्तनौ त्रिदशपतिगुरुर्हि केंद्रस्थितः। व्ययगृहसहजारिधर्मस्थितो यदि च भवति निर्बलश्चंद्रमाः ६६

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484