Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 453
________________ १३७ गृहप्रवेशे कालशुद्ध्यादि] गृहप्रवेशप्रकरणम् १३ । हानिः पशुपुत्र विनाशनम् । तृतीया रोगदा ज्ञेया चतुर्थी भंगकारिणी ॥ कुलक्षयं तथा षष्ठी दशमी धननाशिनी । विरोधकृदमा पूर्णा न स्याच्छाखावरोपणम् ॥' इति । एवं सति विरुद्धतिथिं विहाय विहिततिथिषु विहितभेषु च तत्रापि चक्रशुद्धेषु भेषु द्वारं विहितं शुभफलदातृ स्यादिति निष्कृष्टोऽर्थ इति शिवम् ॥ २९॥ ___ अथ गृहारंभप्रकरणं गयेनोपसंहरतिइति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ वास्तु(गृहनिर्माण)प्रकरणं समाप्तम् ॥ १२ ॥ स्पष्टार्थमेतत् ॥ ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा . पुत्रेणाहिगवीप्रसारितधिया मौहूर्तचिंतामणेः । गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे ___ व्याख्याने गृहनिर्मितिप्रकरणं संपूर्णतामध्यगात् ॥ १॥ इति श्रीमदैवज्ञमुकुटालंकारनीलकंठज्योतिर्वित्पुत्रगोविंदज्योतिर्विद्विरचितायां मुहूर्तचिंतामणिटीकायां पीयूषधाराभिधायां वास्तुप्रकरणं समाप्तम् ॥ १२ ॥ अथ गृहप्रवेशप्रकरणम् १३ । GHODHलंबोदरं नमस्कृत्य गोविंदेन विदां मुदे। गृहवेशप्रकरणं सम्यग्व्याख्यायतेऽन्तिमम् ॥ अथ गृहप्रवेशप्रकरणं व्याख्यायते। तत्र चतुर्धा प्रवेश इत्युक्तं प्रागस्माभिः। तत्र नववधूप्रवेशो विवाहप्रकरणांतेऽभिहितः । अन्यप्रवेशत्रयमुहूर्तोऽत्राभिधीयते । ननु 'यात्रानिवृत्तौ शुभदं प्रवेशनम्' (११११०६) इत्यादिना सुपूर्वप्रवेशस्याभिहितत्वात्प्रवेशद्वयमेव वक्तव्यं स्यानतु प्रवेशत्रयमिति । उच्यते-यात्रां कृत्वा प्रतिनिवृत्तस्य भूपादेरासुमुहूर्त नगराबहिः स्थातुमशनुवतो दैवादागतवृष्ट्याद्यभिभूतस्य यथाकथंचिच्छुभाशुभप्रकरणोक्तां पंचांगशुद्धिं विचार्योक्तपद्यविहितनक्षत्रैरेव प्रशस्तः प्रवेशोऽभिहितः, नतु विशिष्य तादृशे प्रवेशे कालशुद्धिर्वोक्तेत्यतः सुपूर्वस्याभिधानम् । तत्रापूर्वप्रवेशसुपूर्वप्रवेशयोः कालशुद्यादिकमिंद्रवंशाछंदसाहसौम्यायने ज्येष्ठतपोऽन्त्यमाधवे यात्रानिवृत्तौ नृपतेनवे गृहे । स्याद्वेशनं द्वास्थमृदुध्रुवोडुभिर्जन्मक्षलग्नोपचयोदये स्थिरे ॥१॥

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484