Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
४३६
मुहूर्तचिंतामणिः। [द्वारचक्रमन्यमतानुगुणं उपचये' इति धातुः । नारदोऽपि-'ज्येष्ठानुराधके चैव भरणीस्वातिपूर्वभे । धनिष्ठास्वपि ऋक्षेषु शनिस्तिष्ठेद्दिनस्य च ॥ कृपणो नामतः प्रोक्तो धनधान्यादिके गृहे । पुत्रो जातोऽथवा तस्मिन्गृह्यते यक्षराक्षसैः ॥' इति । अत्रायं निकृष्टोऽर्थः-पूर्व गृहारंभे नक्षत्राणि अवधार्याणि, ततो वृषवास्तुके शोध्यानि, पश्चादिदं योगपंचकं विचार्यम् ; एवं सति गृहारंभ उक्तफलदाता भवेत् । अयं सर्वोऽपि गृहविचारः प्रासादवापीकूपादिष्वपि ध्येयः । तदुक्तं विष्णुधर्मोत्तरे'प्रासादेष्वेवमेव स्याद्वापीकूपेषु चैव हि' इति । प्रासादो देवगृहम् ॥ २८ ॥
अथ केषांचिन्मतेन द्वारचक्र सफलं शार्दूलविक्रीडितेनाहसूर्याधुगभैः शिरस्यथ फलं लक्ष्मीस्ततः कोणभै
गैरुद्वसनं ततो गजमितैः शाखासु सौख्यं भवेत् । देहल्यां गुणभैर्मृतिगृहपतेमध्यस्थितैर्वेदभैः
सौख्यं चक्रमिदं विलोक्य सुधिया द्वारं विधेयं शुभम् ॥२९॥
सूर्यादिति ॥ अत्र द्वारस्य चत्वारः पाषाणा आवश्यकाः, द्वौ ऊर्ध्वाधोभावेनावस्थितौ समावल्पपरिमाणौ।भाषया 'उत्तरंग इत्यूर्वावस्थितस्य संज्ञा। अधोवस्थितस्य तु देहलीति सर्वसाधारणं नाम । द्वौ पार्श्वद्वये स्थितौ महापरिमाणौ उच्चत्वेन 'साहर' इति भाषया द्वयोरपि संज्ञा । एवं दीर्घचतुरस्रद्वार भवति । पाषाणासंभवे तु काष्टादेरपि । तत्र द्वारे चिकीर्षिते सूर्याधिष्ठितनक्षत्राद्युगभैश्चतुर्भिर्नक्षत्रैः शिरस्यवस्थितैः सद्भिः लक्ष्मीप्राप्तिरूपं फलं स्यात् । ततस्तदग्रिमै गैः कोणभैयोरवस्थित्या चतुष्कोणेष्ववस्थितैरष्टसंख्याकैर्नक्षत्रैरुद्वसनं तद्द्वारगृहं सर्वदा जनवासरहितं स्यात् । ततस्तदग्रिमैगजमितैरष्टभिभैंःशाखासु भाषया 'साहर' इति नाम;तत्रावस्थितैर्गृहस्वामिनः सौख्यरूपं फलं स्यात् । ततस्तदग्रिमैर्गुणभैस्त्रिभिर्नक्षत्रैदेहल्यामवस्थितैगृहपतेम॒तिः स्यात् । ततस्तदग्रिमैर्वेदभैश्चतुर्भिनक्षत्रैर्मध्ये स्वरूपेऽवकाशे स्थितैः सौख्यं स्यात् । फलितार्थमाह-चक्रमिति । इदं द्वारचक्रं विलोक्य सुधिया शुभं शुभफलदातृ द्वारं विधेयं कर्तव्यम् । तदुक्तं ज्योतिर्निबंधे-'द्वारचक्र प्रवक्ष्यामि भाषितं विश्वकर्मणा । सूर्यभानचतुष्कं तु द्वारस्योपरि विन्यसेत् । द्वे द्वे कोणे प्रदातव्ये शाखायुग्मे द्वयं द्वयम् । अधश्च त्रीणि देयानि वेदा मध्ये प्रतिष्ठिताः ॥ राज्यं स्थादूर्ध्वनक्षत्रे कोणेषूद्वासनं भवेत् । शाखायां लभते लक्ष्मीमधश्चैव मृति लभेत् ॥ मध्यगेषु लभेत्सौख्यं चिंतनीयं सदा बुधैः ॥' इति । द्वारचक्रं यथा
द्वारचक्रम् । अथ द्वारस्थापनम् । द्वारस्थापननक्षत्राण्युच्यतेस, शिर. ४ र 'अश्विनी चोत्तरा हस्तपुष्यश्रुतिमृगाः शुभाः । स्वाती
" पूष्णि च रोहिण्यां द्वारशाखावरोपणम् ॥' इति ज्यो४ शा. तिर्निबंधेऽभिहितत्वात्तिथयोऽपि तत्रैवाभिहिताः। र 'पंचमी धनदा चैव मुनिनंदवसौ शुभम् । प्रतिपत्सु
न कर्तव्यं कृते दुःखमवाप्नुयात् ॥ द्वितीयायां द्रव्य
शा.
म.
को.२ ३.३
Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484