Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
प्रवेशोत्तरकालविहितं कर्म ] गृहप्रवेशप्रकरणम् १३ ।
४४७ सिवे रोहिणीमृगे ग्राले । दक्षिणाभिमुखगृहप्रवेशे उत्तराफल्मुनीचित्रे एवं पश्चिमाभिमुख अनुराधोत्तराषाढे; एवं उत्तराभिमुखे उत्तराभाद्रपदारेवल्यौ ग्राले इति निष्कृष्टोऽर्थः । अत एवोक्तं वसिष्ठेन-ध्यदिग्द्वारं मंदिरं तद्दिगृ:रुक्तः स्यात्सन्निवेशो न सर्वैः।' इति । तद्दिगृक्षैरिति उक्तरिति चानयोः सामानाधिकरण्येनान्वयः । भिन्नवाक्यत्वे तु विवक्षिते चकारः कर्तव्यः। 'संभवत्येकवाक्यत्वे वाक्यभेदो हि दूषणम्' इति न्यायाच्च । अत एव-'अर्काग्नितोयादितिदत्रविष्णुऋक्षे प्रविष्टं नवमंदिरं यत् । अब्दत्रयात्त. त्परहस्तयातं शेषेषु धिष्ण्येषु च मृत्युदं स्यात् ॥' इति निषेधोऽप्युपपन्नो भवति ॥ ६॥ __ अथ गृहप्रवेशप्रकरणोपसंहारं सूचयन् प्रवेशोत्तरकालीनकर्तव्यं विधिमुपजावाहएवं सुलग्ने स्वगृहं प्रविश्य वितानपुष्पश्रुतिघोषयुक्तम् । शिल्पज्ञदैवज्ञविधिज्ञपौराबाजार्चयेभूमिहिरण्यवस्त्रैः ॥ ७॥ __ एवं सुलग्न इति॥ एवं प्रागुक्तप्रकारेण विचारिते सुलग्ने निर्दूषणे सकलगुणयुक्ते च शोभनलग्ने स्थिरराश्यादिके राजा वितानपुष्पश्रुतिघोषयुक्तं वितानानि वनमंडपाः पुष्पाणि स्वर्तुजातानि मालत्यादीनि श्रुतिघोषो वेदध्वनिश्च तैर्युक्तमुपलक्षणत्वात्तोरणाधनेकमांगल्यवस्तुसहितमेतादृशं स्वगृहं स्वसत्ताकं गृहं प्रविश्य शिल्पज्ञान् गृहोत्थापकान् स्थपतिवर्धक्यादीन् दैवज्ञान् ज्योतिर्विदः विधिज्ञांश्च पूजाभूतबलिगृहप्रवेशनीयविधिज्ञान् पुरोहितप्रभृतीन् पोरान्नागरिकान् पंडितदीनानाथांधकृषणांश्च भूमिहिरण्जवस्त्रैर्यथाशक्ति हिरण्येन वा वस्वैर्वा व्यस्तैर्वा समुञ्चितैर्वा उपलक्षणत्वादश्वगजादिभिर्वा अर्चयेत्पूजयेत् । यदाह वसिष्ठः-'हर्म्य रम्यं तोरणस्रग्वितानैः स्त्रीभिः स्रग्वी गीतवाद्यैर्विशेत्तत् ।' इति । राजमार्तडेऽपि-भूरि पुष्पनिकरं सतोरणं तोयपूर्णकलशोपशोभितम् । गंधपुष्पबलिपूजितामरं ब्राह्मणध्वनियुतं विशेगृहम् ॥' इति । कीदृशं गृहं प्रवेशयोग्यं न भवतीति वसिष्ठेनाभ्यधायि-'यद्वास्तुपूजारहितं त्वदत्तबलि त्वनाच्छन्नगृहं विरूपम् । कपाटहीनं न विशेद्यतस्तत्सर्वापदामालयमेव तत्स्यात् ॥' इति । नारदोऽपि-'अकपाटमनाच्छन्नमदत्तबलिभोज. नम् । गृहं न प्रविशेद्धीमान्विपदामालयं हि तत् ॥' इति । तस्मात्सकपाटमुपरिष्टादाच्छादितं कृतवास्तुपूजं दत्तवलि एवं गृहं प्रविशेत् । प्रवेशोत्तर. कर्तन्यं विधिमाह श्रीपतिः-'ततो नृपो विप्रसुहृत्पुरोधसः शिल्पज्ञभूगोलविदश्च लिंगिनः । धनैश्च रलैः पशुभिः समर्चयेत्सहांधदीनान्पुरवासिनस्तथा ॥ इति शिवम् ॥ ७ ॥ __ अथ गृहप्रवेशप्रकरणं गद्येनोपसंहरतिइति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ
गृहप्रवेशप्रकरणं समाप्तम् ॥ १३ ॥
Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484