Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
वंशवर्णनप्रकरणम् १४ । गणितशास्त्राभिज्ञानां प्रीतये तुष्टयै । अनेनास्यानेकग्रंथकरणप्रयासकर्तृत्वं न स्वार्थमत्यल्पायासेन दृढतरज्योतिःशास्त्राभिज्ञत्वात् । किंतु सत्तुष्ट्यर्थमेव । यावस्वीयशास्त्राभ्यासो ग्रंथकरणद्वारान प्रकाश्यते तावत्सकलसंतुष्टिर्न भवतीत्यनेकग्रंथकरणप्रयास इति सूचितम् । कृतीति 'अत इनिठनौ' इतीनिः। ननु एकाक्षरास्कृतो जातेः सप्तम्या च न तौ स्मृतौ' इत्युक्तेः कृतशब्दस्य कृदंतत्वात्कथमत्रेनिः? उच्यते-नायं समुच्चयः कृतो जातेश्चेति, किं तर्हि ? जातिर्विशेषणं कृद्रहणं कृद्योगे जातिरिति । एवं च कार्यो कार्यिकः, तंडुली तंडुलिक इत्यपि सिध्यति, तेन व्याघ्रवानित्यादावेव इनिठनोनिषेधो नान्यत्रेति महाभाष्यकारेणैवं वार्तिकच्याख्यानागवत्येवात्रेनिः। अहस्कर इति 'दिवाविभानिशा-' इत्यादिना कर्मण्यणो बाधकष्टप्रत्ययः । समकरोदिति 'डुकृञ् करणे' इत्यस्मात्संपूर्वात् 'अनद्यतने लङ्' इति लङ् । अकार्षीदिति तस्मादेवानिटो लुङि च्लेः सिच् ‘सिधि वृद्धिः परस्मैपदेषु' इति वृद्धिः 'उरणपरः' इति रपरत्वम् ॥ २॥
अथ स्वनामकथनपूर्वकं मंगलं सूचयन् मुहूर्तचिंतामणिनामकज्यौतिषग्रंथसमातिं पृथ्वीछंदसाह
तदात्मज उदारधीविबुधनीलकण्ठानुजो
गणेशपदपंकजं हृदि निधाय रामाभिधः। गिरीशनगरे वरे भुज जेषुचन्द्रमिते
शके विनिरमादिमं खलु मुहूर्तचिंतामणिम् ॥३॥ तदात्मज इति ॥ तदात्मजस्तस्याऽनंतज्योतिर्विद मात्मजः पुत्रो रामाभिधो रामसंज्ञक: गिरीशनगरे गिरीशो महादेवस्तस्य नगरे वाराणसाख्ये मुहूर्तचिंतामणिनामकं ज्यौतिषग्रंथमिमं प्रत्यक्षदृश्यं विनिरमात् मकार्षीत् । खलुशब्दो वाक्यालंकारे। कीदृशो रामाभिधः? उदारधीः,उदारा भनेकशिष्यविद्यादिदानकारिका धीर्बुद्धिर्यस्यासौ तथा । पाठितानेकशिष्य इत्यर्थः। पुनः कीदृशः? विबुधनीलकंठानुजः, चिबुधः ज्योतिषव्याकरणाद्यनेकविद्यायां पंडितो नीलकंठस्तस्यानुजो लघुभ्राता। किं कृत्वा? गणेशस्य स्वकुलोपास्यमहागणपतेः पदपंकजं चरणकमलं,जात्यभिप्रायेणैकवचनं गणेशपदपंकजे इत्यर्थः। ते मंतःकरणे निधाय 'मङ्गलान्तानि शास्त्राणि प्रथंते वीरपुरुषाण्यायुष्मत्पुरुषकाणि च' इति महाभाष्यकारोक्तेश्च । कीदृशे गिरीशनगरे? वरे मोक्षदातृत्वेन श्रेष्ठे। यद्यपि 'अयोध्या मथुरा माया काशी कांची अवंतिका। पुरी द्वारावती चैव सप्तैता मोक्षदायकाः ॥' इति वाक्यान्मोक्षरूपफलप्रदत्वेनायोध्यादीनां नगरीणां साम्यमेव प्रतीयते । तथापि 'अन्यानि मुक्तिक्षेत्राणि काशीप्राप्तिकराणि वै । काशी प्राप्य विमुच्येत नान्यथा तीर्थकोटिभिः ॥' इति वाराणस्या विशिष्यमुक्तिप्रदत्वेनाऽभिधानाच्छ्रेष्ठ्यं वाराणस्याः । ननु 'अयोध्या मथुरा माया' इत्यादिवाक्यस्य 'अन्यानि मुक्तिक्षेत्राणि' इत्यस्य च व्यासप्रणीत
Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484