Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 454
________________ how ४३८ मुहूर्तचिंतामणिः । [कर्कसंक्रांत्यादावपि-केचित् सौम्यायने इति ॥ एतेषु सौम्यायन इत्यादिकेषु पदार्थेषु सत्सु नृपतेर्यावानिवृत्तौ अथवा नवे नूतनोत्थापिते गृहे वेशनं 'विश प्रवेशने' प्रवेशनं स्यात्। सौम्यायने उत्तरायणे । अत्र शुक्रगुर्वस्तादिको दोषो 'वाप्यारामतडाग-' (१।४६) इत्यादिनोक्त इति न पुनरुक्तः । एवं 'गीर्वाणांबुप्रतिष्ठा-' (५।२६) इत्यादिना दक्षिणायननिषेधोऽपि । अतः परिशेषात्सौम्यायनग्रहणे सिद्धे तदुक्तिमंदबुद्धीनां शीघ्रप्रतिपत्त्यर्था । उक्तं च वसिष्ठेन–'अथ प्रवेशो नवसद्मनश्च सौम्यायने जीवसिते बलाव्ये' इति । बलाढ्ये उदिते । नारदेनापि-'अथ सौम्यायने कार्य नववेश्मप्रवेशनम् । राज्ञां यात्रानिवृत्तौ वा' इति । केवलायां भूमौ क्रीतायां प्राप्तायां वा स्वतःसिद्धायां वोत्थापितं गृहं नूतनमित्युच्यते। ज्येष्ठेति । ज्येष्ठमाघफाल्गुनवैशाखमासेष्वेव सत्यप्युत्तरायणे प्रवेशनं शुभम् । यदाह नारदः-'माघफाल्गुनवैशाखज्येष्ठमासेषु शोभनः । प्रवेशो मध्यमो ज्ञेयः सौम्यकार्तिकमासयोः ॥' इति । सौम्या मार्गशीर्षः । मध्यमोक्तिरावश्यकविषया। चांद्रमासफलान्याह वसिष्ठः-'माघेऽर्थलाभः प्रथमप्रवेशे पुत्रार्थलाभः खलु फाल्गुने च । चैत्रेऽर्थहानिर्धनधान्यलाभो वैशाखमासे पशुपुत्रलाभः ॥ ज्येष्ठे च मासेषु परेषु नूनं हानिप्रदः शत्रुभयप्रदश्च । शुक्ले च पक्षे सुतरां विवृद्ध्यै कृष्णे च यावद्दशमी च तावत् ॥' इत्याद्युक्तेरेव ग्रंथकृता पक्षविशुद्धिर्नोक्ता, तिथिवारशुद्धिश्चाग्रे वक्ष्यते । वसिष्ठेन तु गृहप्रवेशे सौरमानमनूद्य दूषितम् । यथा-'मृगादिषड्राशिषु संस्थितेऽर्के नवप्रवेशः शुभदः सदैव । कुंभं विनान्येष्वपि केचिदूचुन सौरमिष्टं खलु सन्निवेशे ॥' इति । अस्यार्थः-नूतनगृहप्रवेशो मकरादिषड्राशिसंस्थिते सूर्ये शुभफलदो भवति, तत्रापि माघादिषु विहितेषु चतुर्पु मासेषु शुभः । ननु 'अथ प्रवेशो नवसद्मनश्च सौम्यायने' इति स्वयं प्राक् सौम्यायन इत्युक्तत्वात्किमित्येतत्पुनरुक्तमित्यत आह—कुंभं विनेति । सत्यप्युत्तरायणे कुंभसंक्रांतो नूतनगृहप्रवेशो न भवतीत्येतदर्थं पुनरुक्तमित्यर्थः । नन्विदं पूर्वापरविरुद्धम् । तथा हि 'माघेऽर्थलाभः प्रथमप्रवेशः' इत्यादिना माघफाल्गुनयोश्वांद्रमासयोः शुभफलाभिधानात्तत्रैव च कुंभसंक्रांतिसद्भावाद्वयोरन्यतरस्याशुभत्वं प्रतिपाद्यते । उभयमासनिर्मुक्तः कुंभस्तु नास्त्येवेति चेत् । उच्यते,संति हि द्विविधाश्चांद्रमासाः-शुक्लादयः कृष्णादयश्चेति; तत्र फाल्गुनपूर्णिमोत्तरमासस्य कृष्णादिमासगणनया चैत्रत्वात्तस्य च विरुद्धफलत्वात्तद्विषयकोऽयं कुंभसंक्रांतिनिषेधः । चांद्रमासस्य शुक्लादिकृष्णाद्यभिधायकानि वाक्यानि गृहारंभप्रकरणेऽस्माभिरुक्तानि । अयमपि निषेधो मासस्य कृष्णादित्वे ज्ञापकः। अथ कर्कादिसंक्रांतिषु मतांतरमाह-अन्येष्वपीति । केचिदाचार्या अन्येष्वपि कर्कादिषड्राशिस्थिते सूर्येऽपि नवगृहप्रवेशः कार्य इत्यूचुः । तदेतद्वंद्वसौपूर्विकगृहप्रवेशविषयम् । तदुक्तं (पृ०४०९) स्वयमेव-'नवप्रवेशे त्वथ कालशुद्धिर्न द्वंद्वसौपूर्विकयोः कदाचित्' इति । नूतनतृणागारप्रवेशविषयं वा । सदुक्तं ज्योति प्रकाशे-'गृहारंभोदितैर्मासैर्धिष्ण्यैारैर्विशेद्गृहम् । विशेत्

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484