Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 424
________________ मुहूर्तचिंतामणिः । [आवश्यकयात्रायां कर्तव्यं .. अथावश्यकर्तव्यायां यात्रायां विरुद्धे शकुने जाते किं कर्तव्यमित्यनुष्टुभाह.. आद्येऽपशकुने स्थित्वा प्राणानेकादश व्रजेत् । - द्वितीये षोडश प्राणांस्तृतीये न कचिद्रजेत् ॥१०५॥ . - आद्य इति ॥ निर्गमसमये यदापशकुने 'वंध्याचर्म (१११९९-१००) इत्यादिके विरुद्ध शकुने आये प्रथमे संजाते सति एकादशसंख्याकान् प्राणान् स्थित्वा 'कालाध्वनोरत्यंतसंयोगे'इति द्वितीया।एकादशप्राणपरिच्छेद्यकालं स्थित्वेत्यर्थः। ततः समीचीने शकुने व्रजेत् । अथ तत्रापि द्वितीये विरुद्ध शकुने संवृत्त षोडशसंख्याकान् प्राणान् स्थित्वा शुभशकुने व्रजेत् । तत्रापि पुनस्तृतीये विरुद्ध शकुने संवृत्ते क्वचिदपि न बजेत्किंतु परावृत्य गृहमागच्छेत् । यदाह वसंतराजः'जाते विरुद्ध शकुनेऽध्वनीनो व्यावृत्य कृत्वा करपादशौचम् । आचम्य च क्षीरतरोरवस्तात्तिष्ठेत्प्रपश्येच्छकुनांतराणि ॥' इति । श्रीपतिः-'माघे विरुद्ध वाकुने प्रतीक्ष्य प्राणानृपः पंच च षद प्रयायात् । भष्टौ द्वितीये द्विगुणास्तृतीये व्यावृत्त्य नूनं गृहमभ्युपेयात् ॥' इति । प्राणशब्देन विंशतिलघ्वक्षराणि दश गुर्वक्षराणि वा यावता कालेन पूर्यन्ते तावान्काल उच्यते । यदाह शौनकः'लध्वक्षरैः स्फुटोक्तैः प्राणः कथितस्तु विंशतिभिः' इति । भास्करः'गुर्वक्षरैः खेदुमितेरसुः' इति । अन्यत्रापि 'दश गुर्वक्षरैः प्राणः' इति । कश्यपेन तु प्राणायामत्रयमेव प्रतीक्ष्यमित्युक्तम् ; यथा-'यायी विरुद्धशकुनमादौ दृष्ट्वा प्रयत्नतः । प्राणायामत्रयं कुर्याद्वितीये द्विगुणं चरेत् । तृतीये पुनरावृत्त्य शांत्या यायादिनांतरे ॥' इति प्राणायामस्तु वर्णत्रयप्रसिद्धः । शांतिरक्ता दैवज्ञमनोहरे-'यदा हि शकुनं पश्येद्विपरीतमुपस्थितम् । सघृतं कांचनं दत्त्वा निर्विशंकः सुखं व्रजेत् ॥' इति । एतच्च मूले स्पष्टमुक्तं'दुःशाकुन्ये साज्यं स्वर्ण दत्त्वा गच्छेत्स्वेच्छाभिः' इति । एवं निखिलदोषशुद्धिं विचार्य शुभलग्ने गंतुर्भूपस्य शत्रुपराजयपूर्वकस्तन्मरणपूर्वको जयो वा भवत्येव । तत्र शत्रुनगरे जिते सति राज्ञा किं कार्यमित्याह वसिष्ठः'विगजतुरगभीतान्पुण्यलोकाभिलाषान्विरथशिथिलवस्त्रान्मुक्तशस्त्रास्त्रकेशान्। तृणमुखगतसत्त्वान्प्रांजलीनुद्यमानान्क्षितिपतितनयादीन्युद्धभूमौ न हन्यात् ॥ सपनदेशानगरान्प्रपश्यन् महीपतिर्देवगुरुद्विजार्थे । कुर्यान्न वांछां न कुलांगमानां प्राणाभिलाषी च कदाचिदेव ।' इति। वराहोऽपि-'नार्ता न भीता न तृणाननाश्च विमुक्तशस्त्रा विपलायमानाः । क्षीणायुधा वाजिगजावतीर्णा ह्येते न वध्या न च पीडनीयाः ॥ कुलैकतंतुः शरणं गतो वा कृतांजलिर्यश्च वदेत्तवास्मि । अयुध्यमानानवगम्य चान्यान्न बालकान्स्त्रीपरिरक्षितांश्च ॥' इति । ग्रंथकर्ता तदर्थकं पद्यं नोपनिबद्धं, मुहूर्त विचारेऽनुपयोगात् । यत्तु श्रीपतिनोक्तम्-'न परविषयप्राप्तो राजा द्विजामरसज्जनद्रविणहरणे चेतः कुर्यान्न वा कुलयोषिताम् । विगजतुरगानान्हिन्यान्न भीतनिरायुधाप्रमुदितमनाः सैन्यैः शस्ते क्षणे स्वपुरं विशेत् ॥' इति । 'तन्महतामनुरोधो न्याव्यः' इति मनस्यालोच्याभिहितम् ॥ १०५ ॥ १ नगरान्प्रविश्य इति पाठः।

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484