Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 436
________________ मुहूर्तचिंतामणिः । [ शाला ध्रुवांकानयनं भूपतिरंतकोऽसन् ॥' इति । वास्तुशास्त्रेऽपि - ' मूलराशौ व्यये क्षिप्ले गृहनामाक्षरैः पुनः । युते हरेत्रिभिर्भागं यच्छेषं सोंऽशको भवेत् । इंद्रो यमश्च राजा स्याद्यमांशी नैव शोभनः ॥' इति । मूलराशिः = क्षेत्रफलम् ॥ ७ ॥ अथ विवक्षितशालाध्रुवांकानयनं पथ्यावक्राख्येनानुष्टुभाह ४२० दिक्षु पूर्वादितः शालाध्रुवा भूद्व कृता गजाः । शालाभ्रुवांकसंयोगः सैको वेश्म ध्रुवादिकम् ॥ ८ ॥ दिविति ॥ पूर्वादितो दिक्षु प्राच्यादिषु चतुसृषु दिक्षु इमे शालाधुवाः स्युः । यथा- प्राच्यां द्वारे चिकीर्षिते शालाध्रुवांकः एकः, दक्षिणस्यां द्वौ, पश्चिमायां कृताश्चत्वारः, उत्तरस्यां गजाः अष्टौ । अथ दिक्परत्वेन यावंति द्वाराणि एकं द्वे त्रीणि चत्वारि वा चिकीर्षितानि तावतां शालाध्रुवांकानां संयोगः कार्यः सैकः एकयुक्तः सन् ध्रुवादिकं वेश्म गृहं स्यात् । अत्रोपपत्तिर्नीलकंठगुरुचरणप्रसादत उच्यते । यथाह नारदः - 'गुरोरंधो लघु न्यस्य पुरस्तात्पूर्ववन्यसेत् । गुरुभिः पश्चिमं पूर्वं यावत्सर्वलघुर्भवेत् ॥' एतच्च सामान्यतो यस्मिन्कस्मिंश्चित्प्रस्तारे संभवति तथापि गृहेषु विदिग्द्वारानौचित्याद्दिक्ष्वेव द्वाराणां प्राशस्त्योक्तेः दिशां च चतुष्ट्वाच्चत्वार एव गुरवः स्थाप्याः, ततो गुरोरधो लघुः स्थाप्य इति विधिः कार्यः । तत्र प्रथमातिक्रमे कारणाभावादादिगुरोरेवाधो लघुः स्थाप्यः । एवमग्रेऽपि । गुरुलघुस्वरूपं वृत्तरत्नाकरे - 'असौ ग्वक्रो ज्ञेयोऽन्यो मात्रिको लजुः' इति । असौ ग् गुरुर्वको लेख्यः यथा ( s) भन्यो गुरुव्यतिरिक्तः ल लघुर्मान्त्रिकः एकमात्रः ऋजुः सरलः ऊर्ध्वदंडाकृतिर्लेख्यः । यथा (1) चतुर्णां प्रस्तारो यथा अत्र दिशां चतुष्ट्वात् क्रमेण लघुस्थानेनालिंदं गुरुमाश्रितं । 'प्रदक्षिणैर्गृहद्वारादलिंदैर्देशषड्विधा' इति । गृहभेदाः स्युरिति शेषः । अलिंदं अलिंदशब्देन शालाभित्तेर्बाह्ये या गमनिका जालकावृतांगणसंमुखा क्रियते सा ज्ञेयेत्युत्पलः । प्रतिशालाख्यमिति महादेवः । ' प्रघाणप्रघणालिंदा बहिर्द्वारप्रकोष्टके' इत्यमरः । तत्र चतुर्गुरोः प्रथमभेदस्य लघोरभावाद् दिग्द्वाराभावादूर्ध्वमुखं गृहं कोष्ठीसदृशं स्यात् । अन्येषु पंचदशसु भेदेषु लघुस्थानावस्थित्या तत्तद्दिक्षु द्वाराणि स्युः । तत्र ग्रंथद्विनापि प्रस्तारोक्तिं लाघवेन शालाध्रुवानानयति स्म । यथा एकस्मिन्नेव द्वारे प्राच्यां चिकीर्षिते शालाध्रुवांक: १ एवं दक्षिणदिशि २ पश्चिमदिशि च ४ उत्तरदिशि च ८ प्रत्यक्षतो ते । तत्र द्वित्र्यादिद्वारज्ञानार्थमुपायः । यद्यद्दिक्षु द्वारेच्छा तत्तद्दिक्शाला ध्रुवयोगः कार्यः; यथा- पूर्वस्यां पश्चिमायां १ गुरोरधो लघुः स्थाप्यः पुरस्तादूर्ध्ववन्यसेत् ॥ गुरुभिः पश्चिमं पूर्वं सर्वलघ्ववधिविधिः ॥ इति पाठो लिखितपुस्तके । 9 S S S S RISSS ३ ऽ।ऽऽ ४ । ।ss || ५s s । s ६ । ऽ । ऽ ७s ।।s ८। ।।s ९sss १० ।ऽऽ । ११ऽ।ऽ। १२।।s १३ ऽ ऽ । १४ ।ऽ । १५७ ।। १६।।।

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484