Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 444
________________ ४२८ मुहूर्तचिंतामणिः । [तिथिपरत्वेन गृहद्वारनिषेधः माघमासानां शुभत्वप्रतिपादकं तुलावृश्चिकमकरकुंभार्कसाहित्यप्राशस्त्यपरम् । वचनांतरबोधितो निषेधः प्रागुक्तविषय एव । एवं फाल्गुनस्य शुभत्वं कुंभार्कविषयम् । मीनार्कसाहित्ये तु निषिद्धः सः । ननु कार्तिकमाघमासौ श्रीपतिना निषिद्धौ तयोः को विषय इत्यत आह । तथेति । ऊर्जः कार्तिको मासः कन्यायां कन्यागते रवौ न सन् न शुभः । च पुनः तपाः माघमासो धनुषि धनुरर्के न सन् । अपिः पादपूरणे । नन्वेतदयुक्तं प्रतिभाति । यतश्चांद्रमासेन चैत्रादिमाससंज्ञाः संति, तत्र कार्तिके मासि कन्यासंक्रांतिःमाघेमासि धनुरर्कश्च कदापि न संभवेत् ; यतः कार्तिकस्य माघस्य वा शुक्लप्रतिपदादि त्रिंशत्तिथयः यावत्तावत् तत्संज्ञेत्यत आह-कृष्णादिमासादिति । अस्ति द्विविधो मासः-शुक्लादिः, कृष्णादिश्चेति । तत्र शुक्लप्रतिपदमारभ्यामावास्यापर्यंत शुक्लादिः; कृष्णपक्षप्रतिपदमारभ्य पूर्णिमांतं कृष्णादिः । यथा चैत्रशुक्लपक्षो मतद्वयेऽपि स एव, चैत्रपौर्णमास्यनंतरं कृष्णपक्षश्चैत्रमास एव, एवं चांदमासो भवति । स एव कृष्णपक्षो यदि वैशाखकृष्णपक्षत्वेन व्यवह्रियते तदनंतरभावी शुक्लपक्षो वैशाखशुक्लः सर्ववादिसिद्धः तदा कृष्णादिर्मासः संभवति । उभयथा हि शास्त्रे व्यवहारः। 'अश्वयुक्कृष्णपक्षे तु श्राद्धं कुर्यादिने दिने।' इति । अष्टमी कृष्णपक्षस्य रोहिणी ऋक्षसंयुता । भवेत्प्रौष्ठपदे मासि जयंती नाम सा स्मृता ॥' इति । अत्र यदि दर्शातो मासो विवक्ष्यते तदा भाद्रपदकृष्णपक्षे श्रावणे मासि चेत्येवं ब्रूयात् । तदेतन्मासस्य कृष्णादित्वे प्रमाणम् । 'अत ऊर्ध्वममी युक्ता गतकालाद्यसंख्यया ॥ मासीकृतायुतैर्मासैर्मधुशुक्लादिभिर्गतैः ॥' इत्यादीनि बहुवाक्यानि शुक्लादित्वे प्रमाणम् । तत्राश्विनपूर्णिमातः कार्तिक शुक्लपौर्णिमांतं कृष्णादित्वेन कार्तिकव्यवहारात् कन्यासंक्रांतिसंभवात् निषेध उपपन्नो भवति । एवमेव माघे मासि धनुरर्कसंभवे तनिषेधस्य सार्थक्यमित्यलमियता ॥ १६ ॥ अथ तिथिपरत्वेन द्वार निषेधमुपजातिकयाहपूर्णेदुतः प्राग्वदनं नवम्यादिपूत्तरास्यं त्वथ पश्चिमास्यम् । दर्शादितः शुक्लदले नवम्यादौ दक्षिणास्यं न शुभं वदंति ॥१७॥ पूर्णंदुत इति ॥ पूर्णेन्दुतः पूर्णिमातः कृष्णाष्टमीपर्यंत प्राङ्मुखं गृहं शुभं न वदंति । कृष्णनवमीतश्चतुर्दशीपर्यंतं क्रियमाणं गृहमुत्तरास्यं न शुभम् । अथ दर्शादितः शुक्लाष्टमीपर्यंतं पश्चिमास्यं गृहं न शुभम् । शुक्लनवमीतश्चतुर्दशीपर्यंतं दक्षिणास्यं गृहं न शुभं वदंति । तासु तिथिषु तत्तद्दिङ्मुखं गृहं न कर्तव्यमिति वाक्यार्थः फलितः । यदुक्तं व्यवहारसमुच्चये-'पूर्णिमातोऽष्टमी यावत्पूर्वास्यं वर्जयेद्गृहम् । उत्तरास्यं न कुर्वीत नवम्यादिचतुर्दशीम् ॥ अमावास्याष्टमी यावत्पश्चिमास्यं विवर्जयेत् । नवम्यादौ दक्षिणास्यं यावच्छुक्लचतुदेशीम् ॥' इति । विहिततिथयोऽपि तत्रैवोक्ताः-'द्वितीया पंचमी मुख्यास्तृती

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484