Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 448
________________ ४३२ मुहूर्तचिंतामणिः। [दिक्परत्वेनोपगृहनिर्माणं अथ गृहे कूपादिनिर्माणदिगवस्थित्या फलं शालिनीछंदसाहकूपे वास्तोर्मध्यदेशेऽर्थनाशस्त्वैशान्यादौ पुष्टिरैश्वर्यवृद्धिः। सूनो शः स्त्रीविनाशो मृतिश्च संपत् पीडा शत्रुतः स्याच सौख्यम् कूपे इति ॥ 'वेश्मभूर्वास्तुरस्त्रियाम्' इति वास्तुशब्दः पुल्लिंगेऽपि । वास्तोगुहस्य मध्यदेशे मध्यभागे जलकूपे कृते सति स्वामिनोऽर्थनाशः स्यात् । अर्थशान्यादिषु सृष्टिमार्गेणाष्टसु दिक्षु पुष्टिरित्यादिफलम् । यथा-ऐशान्यां कूपे पुष्टिः, पूर्वस्यां कूपे ऐश्वर्यवृद्धिः, आग्नेय्यां कूपे पुत्रनाशः, दक्षिणस्यां कूपे स्त्रीविनाशः,नैर्ऋत्यां कूपे गृहकर्तुर्मतिः, पश्चिमायां कूपे सम्यक् शोभनं,वायव्यां कूपे शत्रुतः सकाशात्पीडा, उत्तरस्यां कूपे सुखं गृहस्वामिन एव न्यासः । उक्तं च वसिष्ठेन-‘ऐश्वर्य पुत्रहानिश्च स्त्रीनाशो निधनं भवेत् । संपच्छत्रुभयं सौख्यं पुष्टिः प्रागादितः क्रमात् ॥' इति ॥ २० ॥ कूपे कृते गृहमध्ये करिष्यमाणानामुपकरणगृहाणां दिक्परत्वेन करणं वसंततिलकाछंदसाह स्नानस्य पाकशयनास्त्रभुजेश्च धान्य भांडारदैवतगृहाणि च पूर्वतः स्युः। तन्मध्यतस्तु मथनाज्यपुरीपविद्या___भ्यासाख्यरोदनरतौषधसर्वधाम ॥ २१ ॥ स्नानेति ॥ पूर्वतः पूर्वाद्यष्टदिक्षु स्नानगृहादीनि गृहाणि स्युः । यथापूर्वस्यां स्नानगृहम् , आग्नेय्यां पाकगृहं, दक्षिणस्यां शयनगृहं, नैऋत्यां शस्त्रगृहं, पश्चिमायां भोजनगृहं, वायव्यांधान्यसंग्रहगृहम् , उत्तरस्यां भांडारस्य द्रव्यस्य गृहम् , ऐशान्यां दैवतगृहं स्यादित्यर्थः । यदाह वसिष्ठः-'ऐन्यां दिशि स्नानगृहमाग्नेय्यां पचनालयः । याम्यायां शयनं वेश्म नैर्ऋत्यां शस्त्रमंदिरम् ॥ वारुण्यां भोजनगृहं वायव्यां धान्यमंदिरम् । उदीच्यां हाटकं सद्म ऐशान्यां देवमंदिरम् ॥' इति । हाटकस्य सुवर्णस्येदं हाटकम् । कश्यपोऽपि-'प्राच्यां दिशि स्नानगृहमाग्नेय्यां पचनालयः । शयनं याम्यदिग्भागे नैर्ऋत्यां शस्त्रमंदिरम् । प्रतीच्यां भोजनगृहं वायुभागेऽन्नसंग्रहम् । भांडारसदनं सौम्ये त्वैशान्यां देवतालयम् ॥' इति । नारदस्तु विशेषमाह-'भाण्डागारं तूत्तरे स्याद्वायव्यां पशुमंदिरम् ॥' इति । विश्वकर्मा पुनः–'उत्तरस्यां जलस्थानं पूर्वस्यां श्रीगृहं तथा' इत्याह । तन्मध्यत इति । पूर्वाद्यष्टदिक्षु तन्मध्यतस्तयोदिविदिशोर्मध्ये अष्टसंख्याके मथनाद्यष्टौ गृहाणि स्युः । यथा-पूर्वाग्नेय्योर्मध्ये मथनस्य दध्यालोडनस्य गृहम् । आग्नेयीदक्षिणयोर्मध्ये आज्यस्य घृतसंग्रहस्य गृहं, दक्षिणनैर्ऋत्योर्मध्ये पुरीषस्य विष्ठात्यागस्य गृहं, नैर्ऋतिपश्चिमयोर्मध्ये विद्याभ्यासस्य गृहं, पश्चिमवायव्योर्मध्ये रोदनस्य गृहं, उत्तरवायव्ययोर्मध्ये रतस्य

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484