Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 447
________________ गृहारंभे खातारंभादिनक्षत्राणि ] वास्तुप्रकरणम् १२ । वृषादित्रये च आग्नेय्यां राहुमुखं स्यात् । जलाशयारंभेऽपि मकरार्कतस्त्रित्रिराइयवस्थेऽर्के विलोमत ऐशान्यां राहुमुखं स्यात् । मेषादितः त्रिभिर्वायव्यां कर्कादितस्त्रिभिर्नैर्ऋत्यां तुलादितस्त्रिभिरानेय्यां राहुमुखं स्यात् । त्रयाणामपि स्पष्टार्थं न्यासो यथा राहुमुखचक्रम् | आरंभः ऐशान्याम् वृषभ | देवालयारंभः स्थिते सूर्ये रा गृहारंभः हुमुखम् सिंह कन्या तुलास्थिते सूर्ये रा हुमुखम् कुंभमीनजलाशयारंभः स्थिते सूर्ये रा हुमुखम् ४३१ वायव्याम् नैर्ऋत्याम् आग्नेय्याम् मिथुन कर्कसिं कन्यातुलावृ- धनुर्मकरकुंभहस्थे सूर्ये रा- श्चिकस्थे सूर्ये स्थिते सूर्ये हुमुखम् राहुमुखम् राहुमुखम् वृश्चिकधनुर्म कुंभमीनमेष वृषभ मिथुनकरस्थे सूर्ये | स्थिते सूर्ये कर्कस्थे सूर्ये राहुमुखम् |राहुमुखम् मेषवृषभमि- कर्कसिंहक- तुलावृश्चिकथुनस्थे सूर्ये न्यास्थिते सूर्ये धनुःस्थे सूर्ये राहुमुखम् राहुमुखम् राहुमुखम् राहुमुखम् 1 फलमाह - खात इति । देवालयादिविषयके खाते भूमिशोधने कर्तव्ये सति राहुमुखाक्रांत दिशः सकाशात्पृष्ठवर्तिनी दिक् शुभा भवेत् । यथा - देवालयविषये मीनादित्रिराशिस्थितसूर्यत्वेन ऐशान्यां राहुमुखं तत्पृष्ठविदिगानेयी तस्यां प्रथमखातप्रारंभः शुभफलदः; एवं मिथुनादिराशित्रयस्थे सूर्ये राहुमुखं वायव्यां तत्पृष्ठविदिगैशानी तस्यां खातारंभः शुभः । एवं सर्वत्र । तथैव गृहविधौ जलाशयविधावपि राहुमुखं कस्यां विदिश्यस्तीत्यवधार्य तत्पृष्ठविदिशि खातं शुभफलदं कार्यमित्यर्थः । यतः सर्पेण विदित्रयं व्याप्तं यत्र मुखावस्थितिः सा प्रथमा । यत्रोदरावस्थितिः सा द्वितीया यत्र पुच्छावस्थितिः सा तृतीया । यथा-ऐशान्यां मुखं, वायव्यामुदरं, नैर्ऋत्यां पुच्छम् ; अतः खाते आग्नेयी सम्यक् । एवमन्यत्राप्यूहनीयम् । यदाह विश्वकर्मा - 'ईशानतः सर्पति कालसपों विहाय सृष्टिं गणयेद्विदिक्षु । शेषस्य वास्तोर्मुखमध्यपुच्छं त्रयं परित्यज्य खनेच्चतुर्थम् ॥' इति । ज्योतिश्चिंतामणौ - 'वृषार्कादित्रिकं वेद्यां सिंहादि गणयेद् गृहे । देवालये च मीनादि तडागे मकरादिषु ॥' इति । वसिष्ठस्तु गृहारंभे वास्तुनरमाह - 'त्रिषु त्रिषु च मासेषु नभस्यादिषु च क्रमात् । यहिझुखो वास्तुनरस्तन्मुखं सदनं शुभम् ॥ अन्यदिङ्मुखगेहं तद्दुःखशोकभयप्रदम् ॥' इति । 'चतुर्दिशादिशालानामेष दोषो न विद्यते ।' इति । नभस्यादिग्रहणं सिंहाद्यर्कसंक्रमोपलक्षणं नागस्तु विदिशि खननार्थः । नरवास्तुस्तु गृहस्य तत्तद्दिङ्मुखार्थः । तत्र खातारंभादिनक्षत्राण्याह मांडव्यः - 'अधोमुखैर्भेबिंदधीत खातं शिलास्तथा चोर्ध्वमुखैश्च पट्टम् । तिर्यङ्मुखैर्द्वारकपाट्यानं गृहप्रवेशो मृदुभिर्ध्रुवक्षैः ॥' इति । खातं = भूमिशोधनम् ॥ १९ ॥

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484