Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 449
________________ महस्थानस्थायुर्दाययोगाः] वास्तुप्रकरणम् १२ । संभोगस्य गृहम् , उत्तरैशान्योर्मध्ये औषधस्य गृहम् , ऐशानीप्राच्योर्मध्ये उक्तव्यतिरिक्तसर्ववस्तूनां धाम गृहं कार्य स्यादित्यर्थः। यदाह वसिष्ठः-'इंद्राम्योर्मथनं मध्ये याम्याम्योघृतमंदिरम् । यमराक्षसयोर्मध्ये पुरीषत्यागमंदिरम् । राक्षसांबुपयोर्मध्ये विद्याभ्यासस्य मंदिरम् । तोयेशानिलयोर्मध्ये रौदनं मंदिरं स्मृतम् । वायव्योत्तरयोर्मध्ये संभोगस्यैव मंदिरम् । उत्तरेशानयोर्मध्ये त्वौषधागारमुच्यते । पुरंदरेशयोर्मध्ये सर्ववस्तुसुसंग्रहम् । सदनं कारयेदेवं क्रमादुक्तानि षोडश ॥' इति । कश्यपोऽपि-'इंद्राग्योर्मथनं गेहं यमान्योघृतमंदिरम् । पुरीषत्यागसदनं मध्ये राक्षसकालयोः ॥ विद्या जलेशनैर्ऋत्योमध्ये च सदनं स्मृतम् । रौदनं सदनं नूनं जलाधीशसमीरयोः ॥ नवरत्नालयं मध्ये कुबेरेश्वरयोस्तथा । इंद्रेशयोर्धान्यगृहम्' इति ॥ २१ ॥ ___ अत्र गृहारंभप्रसक्तानुप्रसक्तं सामान्यतः प्राग्लग्नबलमप्यभिधायेदानीमारब्धगृहस्य लग्ने ग्रहाणां नियतस्थानावस्थित्या नियतायुर्दाययोगद्वयमुपजातिकयाहजीवार्कविच्छुक्रशनैश्चरेषु लग्नारिजामित्रसुखत्रिगेषु । स्थितिः शतं स्याच्छरदां सिताकोरेज्ये तनुव्यंगसुते शते द्वे २२ जीवेति ॥ अत्र योगद्वये ग्रहस्थानयोर्यथासंख्यं संबंधः । यथा-जीवो लग्ने, अर्कः सूर्यः षष्ठे, वित् बुधो जामित्रे सप्तमे, शुक्रश्चतुर्थे, शनैश्चरस्तृतीये; एवं नियतस्थानावस्थितग्रहसहिते लग्ने प्रारब्धस्य गृहस्य स्थितिरब्दशतं वर्षशतं स्यात् ;अयमेको योगः। यदाह श्रीपतिः-'उदये गुरुरस्तगृहे शशिजः सहजे तु शनिश्च रविश्च रिपौ। जलगश्च सितो भवनस्य तदा शरदां शतमायुरुशंति बुधाः ॥' इति । जलं चतुर्थस्थानम् । अथ द्वितीयो योगः-सितेति । शुक्रो लग्ने, अर्कस्तृतीये, आरो भौमः षष्ठे, इज्यः पंचमे; एवंविधे लग्ने प्रारब्धगृहस्थितिढे शते शतद्वयं वर्षाणां स्यात् । यदाह श्रीपतिः-'लग्ने भृगुः पुत्र- . गतश्च जीवः षष्ठे कुजस्तिग्मकरस्तृतीयः । निवेशने यस्य गृहस्य तद्धि शतद्वयं तिष्ठति वत्सराणाम् ॥' इति ॥ २२ ॥ अथान्यन्नियतायुर्दाययोगद्वयमिंद्रवंशाछंदसाहलग्नांबरायेषु भृगुज्ञभानुभिः केंद्रे गुरौ वर्षशतायुरालयः । बंधौ गुरुयॊग्नि शशी कुजार्कजौ लाभे तदाशीतिसमायुरालयः॥ लग्नेति ॥ अत्रापि योगद्वये स्थानग्रहयोर्यथासंख्यं संबंधः। लग्ने भृगुः दशमे बुधः एकादशे सूर्यः लग्नव्यतिरिक्तकेंद्रे गुरुः स्यात्तदैवंविधे योगे प्रारब्धालयो गृहं वर्षशतमायुरवस्थानं यस्य तादृशः स्यात् । यदाह श्रीपतिः'यदि विलग्नगतो भृगुजोऽम्बरे शशिसुतः खलु केंद्रगतो गुरुः । दिनकृदायगतश्च तदा बुधैः शतमितायुरुदीरित आलयः' इति । अयं प्रथमो योगः। अथ द्वितीयः। बंधाविति । चतुर्थे गुरुः दशमे चंद्रः मंगलशनैश्चरौ एकादशे स्यातां तदा आलयोऽशीतिसमायुः मशीतिसमाः वर्षाण्यायुर्यस्य तादृशः ३७ मु. चि.

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484