Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 438
________________ मुहूर्तचिंतामणिः । [ गृहस्यायादिनवकं 1 विजयं पूर्वदक्षिणपश्चिमोत्तरद्वारं षोडशमिति । ननु ध्रुवाद्यक्षरसंख्याज्ञानं प्राक्पद्येनैवोक्तं, तत्किं पुनर्धुवादीनां नामग्रहणेन ? उच्यते, - नामसदृश फलसूचनार्थं तदुपादानम्, अन्यथा द्वारानुरोधेन ध्रुवाद्यक्षरसंख्यायोगे उक्ते कीदृशानां गृहाणां विधिर्निषेधो वेति न निश्चीयेत । तस्माद्येषां शुभफलदानि नामानि तेषां गृहाणां ग्रहणं येषां चाशुभं फलं तेषां त्यागो विधेय इति निष्कृष्टोऽर्थः । उक्तं च वसिष्ठेन - 'ध्रुवसंज्ञं गृहं त्वाद्यं धनधान्यसुखप्रदम् । धान्यं धनप्रदं नृणां जयं स्याद्विजयप्रदम् । नंदं स्त्रीहानिदं नूनं खरं संपद्विनाशनम् । पुत्रपौत्रप्रदं कांत श्रीप्रदं स्यान्मनोरमम् ॥ सुवक्रं भोगदं नूनं दुर्मुखं विसुखप्रदम् । सर्वदुःखप्रदं क्रूरं विपक्षं शत्रुभीतिदम् । धनदं धनदं गेहं क्षयं सर्वक्षयप्रदम् । आनंदं शोकजननं विपुलं श्रीयशःप्रदम् । विपुलं नामसदृशं धनदं विजयाभिधम् ॥' इति ॥ १० ॥ अथ केषांचिन्मतेन गृहस्यायादिनवकमुपजातिका पथ्यावक्राभ्यामाहपिंडे नेवांकां गगजाग्निर्नागनागान्धिनागैर्गुणिते क्रमेण । विभाजिते नागनगां सूर्य नागर्क्षतिध्यक्षख भानुभिश्च ॥ ११ ॥ आयो वारोंशको द्रव्यमृणमृक्षं तिथिर्युतिः । आयुश्वाथ गृहेशर्क्षगृहभैक्यं मृतिप्रदम् ॥ १२ ॥ पिंड इति ॥ आय इति ॥ पिंडे क्षेत्रफले नवधा स्थापिते क्रमेण नवादिभिरंकैर्गुणिते क्रमेण च नागादिभिरंकैर्भक्ते सति यदवशिष्टं तदायादिकं स्यात् । यथा - क्षेत्रफलं नवभिर्गुणितमष्टभिर्भक्तं शिष्टमायः स्यात्, पुनर्नवभिर्गुणितं सप्तभिर्भक्तं शिष्टं वारः । पुनः षद्भिर्गुणितं नवभिर्भक्तं शिष्टोंऽशकः । पुनरष्टभिर्गुणितं द्वादशभिर्भक्तं शिष्टं द्रव्यं स्यात् । पुनस्त्रिभिर्गुणितमष्टभिर्भक्तं शिष्टमृणं । पुनरष्टभिर्गुणितं सप्तविंशत्या भक्तं शिष्टमृक्षं । पुनरष्टभिर्गुणितं पंचदशभिर्भक्तं शिष्टा तिथिः । पुनश्चतुर्भिर्गुणितं सप्तविंशत्या भक्तं शिष्टा युतियोंगो विष्कंभादिः । पुनरष्टभिर्गुणितं क्षेत्रफलं खभानु १२० भिर्भक्त शिष्टमायुः स्यादित्यर्थः । तद्यथा - पिंड : २०३ नवभिर्गुणित: १८२७ अष्टभक्ते शेषं ३ सिंह आयो जातः, पुनः नवभिर्गुणितं सप्तभिर्भक्तं शिष्टं वारः ७ एवं सर्वेऽप्यानीताः अंशकः ३ द्रव्यं ४ ऋणं १ नक्षत्रं ४ रोहिणी तिथिः ४ चतुर्थी योगः २ प्रीतिः आयुः ६४ । उक्तं च- 'गोऽङ्कर्त्वष्टगुणाष्टना गजलधिव्यालै ९ । ९ । ६।८।३।८।८।४ । ८ । र्हतं भूफलं नागाद्वयंकदिवाकराष्ट्रभतिथीयोगैः खसूर्यै ८ । ७ । ९ । १२ । ८ । २७ | १५ | २७ । १२० र्भजेत् । आयं वारमथांशकं धनमृणं तारां तिथिं चिंतयेद्योगं चायुरितीह शेषकपदे भागैर्हते तांत्रिकैः ॥' इति । वसिष्ठादिभिस्तु षडेते निर्दिष्टाः । यदाह - 'विस्तारायामगुणितं गृहस्य पदमुच्यते । तस्माद्धुनाऽधनायर्क्षे वासराख्यनवांशकाः ॥ गजरामांकवस्वकऋतुभि ८ । ३ । ९ । ८ । ९ । ६ । गुणितात्पदात् । सूर्याष्टाष्टर्क्षशैलांक १२ । ८|८| २७ । ७ । ९ विभक्तादवशिष्टकाः ॥ संपूर्णाः शुभदास्त्वेते ह्यसंपूर्णास्त्वनिष्टदाः ॥' इति । पदं क्षेत्रफलं । अधनमृणम् । अत्रोपपत्तिः गुणकानां भाजकानां च ४२२ १ वसिष्ठो हि विपक्ष इति पाठोऽत्र पठति; गर्गस्तु - 'सुपक्षं धनदं क्षयम्' इत्यनेन तमेव 'सुपक्ष' इत्याचष्टे । एवमत्र सुपक्ष-विपक्षयोर्वैषम्यं कथं लुप्तं तत्सुज्ञैर्विमर्शनीयम् ।

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484