Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 439
________________ गृह-गृहकोंरेकभे फलं] वास्तुप्रकरणम् १२ । ४२३ आया अष्टावेव, वाराः सप्तैव, अंशा नवैव, धनं ऋणं, नक्षत्राणि सप्तविंशतिः, तिथयः पंचदश, योगाः सप्तविंशतिः, परमायुः विंशत्यधिकशतम् । अथैषामायादीनां प्रयोजनमुच्यतेऽस्माभिः। आयस्य तावत्-'विषमायः शुभायैव समायः शोकदुःखदः' इति वसिष्ठोक्तेः। वाराणां च 'सूर्यारवारराश्यंशाः सदा वह्निभयप्रदाः। शेषग्रहाणां वारांशाः कर्तुरिष्टार्थसिद्धिदाः ॥' इति । यथा-गणिते. नागतो भौमवारः सोऽपि निंद्यः, तद्राशी मेषवृश्चिकौ निंद्यौ, तदंशाः यस्मिन्कस्मिंश्चिल्लग्ने मेषवृश्चिकनवांशावपि निंद्यौ । एवमन्येष्वपि वारेषु नवांशानां च । 'गृहस्यागतं भं यत्तु तद्विराश्यात्मकं यदि । तन्नवांशवशात्तत्र ज्ञातव्यं सर्वदा गृहे' इति । यथा कृत्तिका द्विराश्यात्मिका तत्रैकावशेष मेषः, न्यादिशेषे वृषः, मृगेऽपि ब्यधिके शेषे मिथुनमन्यथा वृषः,पुनर्वसावप्यंशकत्रयं यावन्मिथुनमन्यथा कर्कः, एवमुत्तराफल्गुन्यादिषु द्विराश्यात्मकेपूहनीयं विद्वद्भिः । नतु निःसंदिग्धेष्वेकराश्यात्मकेषु अश्विन्यादिषु । धनर्णयोश्च 'धनाधिकं गृहं वृद्ध्यै निर्धनाय ऋणाधिक मिति । नक्षत्रस्य 'विपत्प्रदा विपत्तारा प्रत्यरा प्रतिकूलदा। निधनाख्या तारका तु सर्वथा निधनप्रदा ॥ विवय॑तारकास्वेतन्निर्माणमशुभप्रदम् । कुर्वन्नज्ञानतो मोहाद् दुःखभाव्याधिभाग्भवेत् ॥' अयमर्थः-गृहनक्षत्रात् दिनभं यत्संख्यं तन्नवभक्तमवशिष्टतारका विपत्तारादिकाः स्युश्चेत्तदाऽनिष्टास्तद्दिने गृहारंभं न कुर्यादन्यस्मिन्दिने शुभतारासु गृहारंभं कुर्यादित्यर्थः-इति केचित् । अपरे तु गृहकर्तुर्नामनक्षत्रागृहभं गण्यं नवभक्तमवशिष्टं विपत्तारादिकं स्यात्तदा तद्गृहमनिष्टमन्यथा शुभमिति । यदाह कश्यपः-'दत्ते दुःखं तृतीया पंचमक्ष यशःक्षयम् । आयुःक्षयं सप्तमक्षं कर्तुर्भाद्यदि सप्तभम् ॥' इति । वास्तुशास्त्रेऽपि-'गृहभात्स्वामिभं गण्यं भक्तं च नवभिः पुनः। यच्छेषं सा भवेत्तारा सप्तपंचत्रिकाधमा ॥' इति । यदा तु गृहकर्तुग़हस्य चैकं नक्षत्रं चेत्स्यात्तदा तच्छुभमशुभं वेति निर्णय स्वयमेवाह-अथेति। गृहेशो गृहस्वामी तस्या नक्षत्रं प्रागुक्तप्रकारेण चानीतं भं गृहभं तयोरैक्यं तयोरेकमेव चेनं स्यात्तद्गृहकर्तुर्मृतिप्रदं मरणकरं स्यात् । यदाह वसिष्ठः-'गृहस्य तत्पतेस्त्वेकं धिष्ण्यं चेन्निधनप्रदम्' इति । निधनं मरणम् । राश्यैक्येऽयं दोषः, नतु भिन्नराशित्वे । तद्वाक्यस्य विवाहप्रकरणोक्तत्वात् । कैश्चिदन्यदपि प्रयो. जनमुक्तम् । तदुक्तं व्यवहारसमुच्चये-'त्रिभिस्त्रिभिर्वेश्मनि कृत्तिकाद्यैरुच्छेदपुत्राप्तिधनानि शोकः । शत्रोभयं राजभयं च मृत्युः सुखं प्रवासश्च नव प्रभेदाः ॥' इति । गृहभवशाद्राशिज्ञानेऽपि प्रयोजनमाह स एव-राशिकूटादिकं सर्व दंपत्योरिव चिंतयेत् । नैःस्वं द्विादशे नूनं त्रिकोणे त्वनपत्यता। षष्टाष्टके नैधनं स्याद्व्यत्यये मध्यमं स्मृतम् । परेषु शुभदं प्रोक्तं गेहं तत्कर्तृराशितः॥' इति । व्यत्ययेद्वादशद्वितीय इत्यादिके। अन्ये राशिकूटप्रभेदा 'वर्णों वश्यम्' (६।२१) इत्यादिका विवाहप्रकरणोक्ता ध्येयाः । सर्वपदोपादानात् 'राक्षसामरमोक्तं गणयोन्यादिकं पुनः । ज्ञेयं ज्योतिषशास्त्रात्तदिदमित्यत्र नोदितम् ॥' इति वास्तुशास्त्रोक्तेश्च । कृत्तिकादिषु द्विराशिषु भेषु राशिनिर्णयो वास्तुशास्त्रे-'अश्विन्यादित्रयं मेषे सिंहे प्रोक्तं मघात्रयम् । मूलादि

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484