Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
गृहनिर्माणनक्षत्राणि] वास्तुप्रकरणम् १२ ।
४२५ ३। ४ । ३ भानो शशिभं गृहेषु । दाहो विनाशः स्थिरता धनं श्रीः शून्यं च दारिद्यवधौ क्रमेण ॥' इति । अथैतस्य चक्रस्य प्रकारांतरेण निष्कृष्टमर्थमाहवेति। अर्कधिष्ण्यादश्वैः सप्तभैरसत्फलं रुदैरेकादशभिः सत्फलं, ततो दिग्भिदेशभैरसत्फलमुक्तं स्यादिति निष्कृष्टोऽर्थः । उक्तं च-रविभात्सप्त नेष्टानि शुभान्येकादशाष्टमात् । दश शेषाण्यनिष्टानि साभिजिद्वृषवास्तुनि ॥' इति । पूर्व सविस्तरोक्तिस्तु मूलवाक्यानुरोधात् ॥ १३-१४ ॥ ___ अथ सौरचांद्रमासैक्येन प्राच्यादिदिक्षु द्वाराणि गृहनिर्माणनक्षत्राणि च
सूतिकागृहनिर्माणप्रवेशमुहूतौं च स्रग्धराछंदसाहकुंभे फाल्गुने प्रागपरमुखगृहं श्रावणे सिंहकोः __ पौषे नके च याम्योत्तरमुखसदनं गोऽजगेर्के च राधे । मार्गे जूकालिगे सद्धृवमृदुवरुणवातिवस्वर्कपुष्यैः
सूतीगेहं त्वदित्यां हरिभविधिभयोस्तत्र शस्तः प्रवेशः॥१५॥ कुंभेऽर्क इति ॥ कुंभे कुंभस्थिते सूर्ये फाल्गुने च मासि प्रागपरमुखं गृहं प्राङ्मुखं पश्चिममुखं च गृहं सत् शुभफलदं कार्य स्यादित्यर्थः । श्रावणे मासि सिंहकर्किसंक्रांत्योः प्रागपरमुखं गृहं स्यात् । पौषे मासे नके मकरसंक्रांती च प्रागपरमुखं गृहं स्यात् । अथ गोऽजगे वृषमेषगे सूर्ये राधे वैशाखे मासे च तथा मार्गे मार्गशीर्षे मासि जूकालिगे तुलावृश्चिकगते सूर्य सति याम्योत्तरमुखं सदनं दक्षिणमुखमुत्तरमुखं च सदनं स्यात् । यदाह नारदः-'गृहसंस्थापनं सूर्ये मेषस्थे शुभदं भवेत् । वृषस्थे धनवृद्धिः स्यान्मिथुने मरणं ध्रुवम् ॥ कर्कटे शुभदं प्रोक्तं सिंहे भृत्यविवर्धनम् । कन्या रोगं तुला सौख्यं वृश्चिके धनवर्धनम् ॥ कार्मुके तु महाहानिर्मकरे स्याद्धनागमः। कुंभे तु रत्नलाभः स्यान्मीने सद्म भयावहम् ॥' इति । चांद्रमासानाह श्रीपतिः'शोको धान्यं मृतिपशुहृती द्रव्यवृद्धिर्विनाशो युद्धं भृत्यक्षतिरथ धनं श्रीश्च वह्वेर्भयं च । लक्ष्मीप्राप्तिर्भवति भवनारंभकर्तुः क्रमेण चैत्रादूचे मुनिरिति फलं वास्तुशास्त्रोपदिष्टम् ॥' इति । अन्यच्च-'भाषाढचैत्राश्वयुजोर्जमाघज्येष्ठेषु सप्रौष्ठपदेषु नूनम् । निकेतनानां घटनं नृपाणां योगेश्वराचार्यमते न शस्तम् ॥' इति । मते न इति पदच्छेदः। अत्र सौराणां चांद्रमासानां च महान् शुभाशुभफलभेदेन विरोधः । तत्र चिकीर्षितगृहद्वारानुकूलरविसंक्रमसमीचीनविहितमासेष्वेव वैशाखादिषु गृहारंभः कार्य इति विरोधाभाव इति पितचरणाः। तत्र द्वारनियममाह श्रीपतिः–'कर्किनक्रहरिकुंभगतेऽर्के पूर्वपश्चिममुखानि गृहाणि । तौलिमेषवृषवृश्चिकयाते दक्षिणोत्तरमुखानि च कुर्यात् ॥ अन्यथा यदि करोति दुर्मतिाधिशोकधननाशमनुते । मीनचापमिथुनांगनागते कारयेन्न गृहमेव भास्करे ॥' इति । तत्र कुंभार्कसहिते फाल्गुने मासि पूर्वपश्चिममुखं गृहम् । सिंहकर्कसहिते श्रावणे मासि तादृशमेव गृहमुक्ताद्धेतोः । एवं मकरार्कसहिते पौषे मासे । अनेनैव हेतुना
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9f31aeea79ba4d7dbabef227f3fad8eb14f0fba8508e38ced97da23997fb69a8.jpg)
Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484