Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 435
________________ सव्ययसकथनमंशज्ञानं] वास्तुप्रकरणम् १२ । ४१९ सति खनिः खननं चौरकृतापहारं तद्वशात्सर्वस्वहानिरित्यर्थः । उक्तं च वास्तुशास्त्रे-ऋक्षं चंद्रस्य वास्तोश्च त्वने पृष्ठे न शस्यते ॥' इति । श्रीपतिना तु चंद्रफलमुक्तम्-'क्षपाकरे नैव गृहं पुरःस्थे कुर्याद्वसेत्तत्र न जातु कर्ता । पतंति स्वमानि च पृष्ठसंस्थे यत्नेन तस्मादिदमत्र चिंत्यम् ॥' इति । पुरःस्थितत्वं लग्नवशादिति केचिद्वयाचख्युः । यथा-प्राङ्मुखे गृहे कर्तव्ये लग्नस्थश्चंद्रः पुरःस्थितो भवति,दक्षिणमुखे तु गृहे वामगः, पश्चिममुखे तु पृष्ठगः, उत्तरमुखे तु दक्षिणगः,एवं दशमस्थश्चंद्रो दक्षिणमुखे गृहे संमुखः। एवं सर्वास्वपि दिक्षु पृष्ठगत्वं संमुखत्वं च ध्येयम् । तत्रार्थात् दक्षिणवामगत्वं चंद्रस्य समीचीनमित्यर्थः । रत्नमालाटीकाकारो महावास्तुदिग्द्वारभक्रमेण संमुखादिवाऽवस्थेति व्याख्यत् । यथा गृहद्वारं यस्यां दिशि विधित्सितं तद्दिङ्नक्षत्रेषु गृहारंभो न कार्य इति । अर्थादिङ्नक्षत्रवशेन वामदक्षिणगे चंद्रे गृहारंभः सुखेन कार्यः । यदाह ब्रह्मशंभुः-'धनलाभः प्रवासः स्यादायुश्चौरभयं क्रमात् ॥ दक्षाग्रवामपृष्ठस्थे गृहभर्तुर्निशाकरे ॥' इति । केचित्सूर्येऽप्येवमेव फलमाहुः । यदाह ब्रह्मशंभुरेव-'भानावपि तथैव स्यादधिकं च तदंतरे। धनलाभो मृतिाधिरविनाशो विलोमतः॥' इति । तदंतरे विदिक्षु, विलोमतः ऐशानवायव्यनैर्ऋत्याग्नेयदिक्षु क्रमेण धनलाभो मरणं व्याधिरविनाशः फलं स्यादित्यर्थः । इदं दिग्द्वारनक्षत्रवशेन चंद्रफलं तुल्यन्यायत्वाद्वास्तुनक्षत्रेऽपि ध्येयम् । यदुक्तं ब्रह्मशंभुना'गृहायलब्धऋक्षेषु यत्र ऋक्षे च चंद्रमाः । शलाकासप्तके ध्येयं कृत्तिकादिक्रमेण च ॥ वामदक्षिणभागे तु प्रशस्तं शांतिकारकम् । अग्रे पृष्ठे न दातव्यं यदीच्छेच्छ्रेय आत्मनः ॥ ऋक्षं चंद्रस्य वास्तोश्च त्वग्रे पृष्ठे न शस्यते ॥' इति । [अय. माशयः-कृत्तिकादिसप्तनक्षत्रेषु अनुराधादिसप्तसु वा गृहनक्षत्रे चंद्रनक्षत्रे च सति पूर्वद्वारं पश्चिमद्वारं वा न कार्य तत्र चंद्रः पृष्ठस्थितोऽग्रस्थितो वा भवति । एवं मघादिसप्तसु धनिष्ठादिसप्तसु वा गृहनक्षत्रे चंद्रनक्षत्रे वा सति दक्षिणद्वारमुत्तरद्वारं वा न कार्यमित्यर्थः ] ॥ ६ ॥ __अथैवमायं सफलमभिधाय व्ययकथनपुरःसरं अंशकज्ञानं सफलमुपजात्याहभं नागतष्टं व्यय ईरितोऽसौ ध्रुवादिनामाक्षरयुक् सपिंडः। तष्टो गुणैरिंद्रकृतांतभूपा मंशा भवेयुर्न शुभोऽन्तकोऽत्र ॥७॥ भमिति ॥ प्रागुक्तदिशा कल्पितं यद् गृहभं तन्नागैरष्टभिस्तष्टं भक्तावशिष्टं स व्यय ईरितः । यथा-भं रोहिणी ४ नागतष्टं ४ अयमेव व्ययः असौ व्ययः ध्रुवादिनामाक्षरयुक् ध्रुवादीनां नामानि अधुनैव वक्ष्यति यत्संख्याकानि दिक्ष द्वाराणि चिकीर्षितानि तदनुरोधेन यदागतं ध्रुवादिगृहनाम तदक्षरसंख्यया युक्तः ततः सपिंडः प्रागानीतपिंडयुक्तः गुणैस्त्रिभिस्तष्टः भक्तावशिष्टः एकद्वित्रिशेषेण इंद्रयमराजसंज्ञकास्त्रयोंऽशाः स्युः।अत्र गृहारंभेऽन्तको यमाख्योऽशको न शुभः । अर्थादिंदराजानौ शुभफलदौ । यदाह श्रीपतिः-'धिष्ण्ये विभक्ते वसुभिर्व्ययः स्याद्बह्वायमूनव्ययमालयं सत् । व्ययान्विते क्षेत्रफले गृहस्य ध्रुवादिनामाक्षरमिश्रिते च । त्रिभिर्विभक्ते क्रमशोऽशकः स्यादिंद्रो यमो

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484