Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 429
________________ स्वगृहनिर्माणप्रयोजनं] वास्तुप्रकरणम् १२। ४१३ किंतु विहिता इत्येतद्वर्जम् ; अन्ये विवाहोका दोषा यात्रायां निषिद्धा एवेति शिवम् ॥ १०७ - १०९॥ अथ यात्राप्रकरणं गयेनोपसंहरतिइति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ .. यात्राप्रकरणं समाप्तम् ॥११॥ स्पष्टार्थमेतत् ॥ ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा पुत्रेणाहिगविप्रसारितधिया मौहूर्तचिंतामणेः ॥ गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे व्याख्याने खलु यात्रिकप्रकरणं संपूर्णतामध्यगात् ॥ १ ॥ इति श्रीमदैवज्ञमुकुटालंकारनीलकंठज्योतिर्वित्पुनगोविंदज्योतिर्विद्विरचितायां मुहूर्तचिंतामणिटीकायां पीयूषधाराभिधायां यात्राप्रकरणं समाप्तम् ॥ ११ ॥ अथ वास्तुप्रकरणम् १२। गौरीनंदनमिष्टसिद्धिसदनं विघ्नावलीभेदनं नत्वा ज्योतिषिकायरामरचिते मौहूर्तचिंतामणौ । गोविंदो बुधनीलकंठविधिवित्सूनुः सतामग्रणी बह्वर्थ गृहनिर्मितिप्रकरणं व्याख्याति विद्वन्मुदे ॥ १॥ अथ वास्तुप्रकरणं व्याख्यायते। तत्र विविधप्रवेशे वसिष्ठायमिहिते 'अपूर्वसंज्ञः प्रथमः प्रवेश' इत्युक्तं स च गृहनिर्माणायत्त इति वास्तुनिर्माणप्रारंभ उच्यते । यदाह वसिष्ठः-'वास्तुज्ञानं प्रवक्ष्यामि यदुक्तं ब्रह्मणा पुरा। ग्रामसद्मपुरादीनां निर्माणं सूक्ष्मतोऽधुना ॥' इति । गृहनिर्माणप्रयोजनमभिहितं भविष्यत्पुराणे-'गृहस्थस्य क्रियाः सर्वा न सिध्यति गृह विना। यतस्तस्माद्गृहारंभप्रवेशसमयौ ब्रुवे ॥' गृहं स्वसत्ताकं । न सिध्यंति निष्फला भवंतीत्यर्थः। एतदपि स्पष्टमभिहितं तत्रैव-'परगेहे कृताः सर्वाः श्रौतस्मातक्रियाः शुभाः। निष्फलाः स्युर्यतस्तासां भूमीशः फलमभुते ॥' इत्येतत्सर्व मनस्यालोच्य गृहारंभप्रकरणं विवक्षुः ग्रंथकृद्धामपुरादिस्थानेषु स्वस्थ

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484