________________
४१६
मुहूतचिंतामणिः। [इष्टभूम्यां विस्तारायामो खेष्टायनक्षत्रभवोऽथ दैर्घ्यहत्स्याद्विस्तृतिविस्तृतिहच दीर्वता । ___ एकोनितेति ॥ खेष्टायेति ॥ यत्र गृहं कर्तुमिष्टं भवति सा भू नाकारा संभवति समचतुरस्रविषमचतुरस्रन्यसाधनेकभेदेन, तत्र यदेव नक्षत्रं स्वव्यवहारनाम्नः 'राशिकूटादिकं सर्वं दंपत्योरिव चिंतयेत्' इति वसिष्टोक्तेः विवाहोक्तमेलापकविधिना शुभदं स्यात्तदेव स्वेष्टभं कल्प्यं । कल्पितमक्षं तेन हता गुणिता द्वितिथ्यः १५२ कार्याः; ततो रूपेणोनितो य इष्टायो ध्वजादिकः तेन हता इंदुनागाः एकाशीतिस्तया युक्ताः कार्याः; ततो घनैः सप्तदशभिरपि युक्ताः,ततो भूपाश्विभिः षोडशाधिकद्विशत्या विभक्ताः, ततो भक्ते सति यच्छेषं तन्मितः पिंडः क्षेत्रफलं स्यात् , स च पिंडः स्वेष्टायनक्षत्रभवः स्वस्य गृहकर्तुरिष्टं यन्नक्षत्रं इष्टः आयश्च ताभ्यां भवतीति तादृशः स्यात् । अथ स पिंडो दैर्घ्यहृत् कल्पितदैर्घ्यभक्तः सन् विस्तृतिविस्तारः स्यात् । अथ स पिंडो विस्तृतिहृत् कल्पितविस्तारभक्तो दीर्घता स्यात् । उक्तं च सारसमुच्चये-'रूपाष्टभि ८१ विनिहतो भवनस्य बंधो नक्षत्रमिष्टमिह युग्मशरेंदु १५२ निघ्नम् । एकीकृतं धन १७ युतं च रसेंदुयुग्म २१६ भक्तस्ततो भवति मध्यगृहस्य पिंडः ॥' इति । अनोदाहरणम्-नीलकंठस्य अनुराधानक्षत्रं तस्य रोहिण्या सह मेलापकः संभवतीति इष्टभं रोहिणी कल्पितं, विषमायः सिंहस्तृतीयः३इष्टकं ४ एकोनितं ३ अनेन द्वितिथ्यो १५२ हताः ४५६ इष्टायः ३ रूपोनितः २ आभ्यामिदुनागा ८१ हताः १६२ एतैर्युक्ताः ६१८ घनै १७ र्युताः ६३५ भूपाश्विभिः २१६ विभक्ताः शेषमिदमेव क्षेत्रफलं गृहस्य २०३ अथ कल्पितदैये २९ अनेन भक्तो लब्धो विस्तारः ७ अथ कल्पितविस्तृतिः ७ अनेन भक्तो लब्धं दैर्घ्य २९ । यदाह प्रकारांतरेण गोपिराज:-'विष्णुं व्येकायगोभू १९ हतिभयुजि फलं गोपिराजो भशेषात्सायं वाहाष्टिदृग्नेष्टयुतमहिहता दृक्प्रकृत्याख्य २१ विश्वे १३ । बाणाः ५ सिद्धा २४ ष्टि १६ नागो ८ व २७ तिरति १९ गिरिश ११ व्या ३ कृती२२ द्र १४ तु ६ तत्त्वा २५ त्यष्ट्यं १७ क ९क्ष्मा १ नखे २० ना १२ र्णव४ विकृति २३ दिना १५ यु७ त्कृती २६ भेंदु १८ काष्टाः १०॥ इति । अस्यार्थः-गोपिराजो व्येकायगोभूहतिभयुजि सति भशेषात् विष्णुं अहिहता दृक्प्रकृत्याख्या विश्वादयः फलं स्यादित्याहेति योजना । विगत एको यस्मात्स व्येकः स चासौ आयश्च व्येकायः ध्वजादिरिष्टायः स च गोभुवश्च १९ एषां हतिः परस्परगुणनं व्येकायगोभूहतिश्च भं च व्येकायगोभूहतिभे तयोर्युक् व्येकायगोभूहतिभयुक् तस्मिन्सति भशेषाद्धैः २७ भक्ते सति यच्छेषं तस्माद्विष्णुनामानं शिष्यं अहिहताश्चाष्टगुणिताः दृक् द्वौ प्रकृत्याख्या एकविंशतिर्विश्वे त्रयो
१ सद्यःप्रतीत्यर्थ शेषाङ्क-फलविज्ञापकं चक्रमत्र दीयते; तद्यथा| शेषाङ्कः | १ २ ३ ४ ५ ६ ७ ८ ९ ० ११ १२ १३ १४ | फलं २२११३ ५२४ १६ ८२७१९/११ ३२२१४ ६ | शेषाङ्कः १५/१६/१७/१८/१९२० २१ २२ २३ २४/२५ २६ २७ । | फलं २५१७ ९ १२०१२/४/२३/१५ ७२६१८१० ।