Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
४१२
मुहूर्तचिंतामणिः। [यात्रादोषातिदेशः पृष्ठतो मरणं चंद्रे वामचंद्रे धनक्षयः ॥' इति । एतच्च निर्मूलत्वादुपेक्ष्यम् । सत्यपि मूलवत्त्वे एतत्सार्वद्वारिकनक्षत्रव्यतिरेकेण ज्ञेयम् , अन्यथा सर्वत्र दिग्द्वयनिषेधे पुष्यादीनां सर्वदिग्द्वारकता भज्येत । तथाडल:- रवे तोऽब्जभोन्मितिः' (११।२५) इत्युक्तः । उपलक्षणत्वाश्रमणमपि निषिद्धम् । वसुपंचकं वसुशब्देन धनिष्ठोत्तरार्धमुच्यते, तदादिकं नक्षत्रपंचकं; अभिजिदभिजित्संज्ञको मुहूर्तो दिवसेऽष्टमः, एतद्वयमपि दक्षिणे; एते पंचांगदोषाः॥ अथ लग्नदोषाः। लग्न इति । लग्ने यात्रालग्ने विचारयितव्ये सति जन्मर्वातन्वोर्जन्मराशिर्जन्मलग्नं तत्संबंधिमृतिगृहमष्टमस्थानं अहितच्छित्रुराशेः शत्रुलग्नाद्वा षष्ठस्थानं तदीशाः स्वजन्मराशितोऽष्टमाधिपतिः स्वजन्मलग्नाद्वाष्टमाधिपतिः स्वशत्रुराशितः षष्ठस्वामी स्वशत्रुजन्मलग्नाद्वा षष्ठाधिपतिः; एते लग्ने लग्नस्थिताः स्युः कुंभमीनःनवलवतनू कुंभलग्नं मीनलग्नं लग्नांतरसद्भावे वा कुंभनवांशो मीननवांशो वा पृष्ठोदयं च। पृष्ठोदयराशयः 'गोऽजाश्विकर्किमिथुनाः समृगा निशाख्याः पृष्ठोदया विमिथुनाः' इति वराहोक्ताः । पृष्ठाशासंस्थमृक्षं दिग्विलोमलग्नमित्यर्थः । दशमशनिः दशमे स्थाने शनिदेशमशनिः, अथो सप्तमे स्थाने स्थितः काव्यः शुक्रः, केंद्रे वका वक्रिणो ग्रहाः, वक्रिग्रहस्य वक्रिग्रहयोर्वा वक्रिग्रहाणां वा दिवसा वाराः; एते दोषा यात्रायां नेष्टा अवश्यं वाः । अत्रार्थे मूलवाक्यानि प्रागलिखितानि । अथ च विवाहोक्तदोषा विवाहप्रकरणेऽभिहिता ये दोषास्तेऽपि निषिद्धाः । त इमे-'उत्पातान्सहपातदग्धतिथिभिर्दुष्टांश्च योगांस्तथा चंद्रेज्योशनसामथास्तमयनं तिथ्याः क्षयर्थी तथा । गंडांतं च सविष्टि संक्रमदिनं तन्वंशपास्तं तथा तन्वंशेशविधूनथाष्टरिपुगान् पापस्य वर्गास्तथा॥ सेंदुरखगोदयांशमुदयास्ताशुद्धिचंडायुधान् खाजूंरं दशयोगयोगसहितं जामित्रलत्ताव्यधम् । बाणोपग्रहपापकर्तरि तथा तिथ्यक्षवारोत्थितं दुष्टं योगमथार्धयामकुलिकाद्यान्वारदोषानपि ॥ क्रूराक्रांतविमुक्तभं ग्रहणभं यत्क्रूरगंतव्यभं त्रेधोत्पातहतं च केतुहतभं संध्योदितं भं तथा । तद्वच्च ग्रहभिनयुद्धगतभं सर्वानिमान्संत्यजेदुद्वाहे शुभकर्मसु ग्रहकृतॉल्लनस्य दोषानपि ॥' इति । यदाह वसिष्ठः-'एकविंशन्महादोषास्त्वेते ब्रह्ममुखोदिताः । कदाचिन्नैव सीदति गुणानां कोटिकोटिभिः ॥ तस्मादेतेषु दोषेषु कदाचिन्नाचरेच्छुभम् । विवाहे विधवा नारी मरणं व्रतबंधने ॥ ग्रामनाशः प्रतिष्ठायां सीमन्ते गर्भनाशनम् । नवान्नभोजने मृत्युः कृषौ तत्फलनाशनम् ॥ कर्तुर्नाशो गृहारंभे प्रवेशे पतिनाशनम् । यात्रायां कर्तृनाशः स्थायुद्धयाने विशेषतः । लभ्यते सुमहत्पुण्यमेषु श्राद्धादिकर्मभिः ॥' इति । अत्र सप्तमशुक्रव्यतिरिक्तो जामित्रदोषो धनुरर्कादिमासदोषोऽपि नास्तीति ध्येयम् । यदुक्तं गणेशदैवज्ञैः-'सर्वमुद्वहन मासास्तदोषौ विना' इति । मासदोषो धनुरर्कादिः, अस्तदोषो जामित्रदोषः । तथापि शुक्रराहित्यं विव. क्षितम् । यतः सप्तमशुक्रस्य यात्रायां विशिष्य निषेधोऽस्ति । बुधगुरू तु प्रशस्तावेव । एवं मासदोषजामित्रदोषा विवाहोक्ता यात्रायां न निषिद्धाः
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/921a7de1c7f3b67241c1ab0d5e9a9356b7c505185438a281a0dabe42509d2fac.jpg)
Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484