Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 422
________________ मुहूर्तचिंतामणिः। [अंगभागावस्थितशकुनाः कपिऋक्षाणामित्यत्र 'ऋत्यकः' इति प्रकृतिभावः । 'न समासे' इति निषेधवार्तिकं हि 'इकोऽसवणे' इति सूत्र एव, नतु 'ऋत्यकः' इत्यत्र इति सिद्धान्तः। व्यत्ययो यथा-वानराणां भल्लूकानां च कीर्तनं निषिद्धं, तेषामेवं शब्दितं दर्शितं वा न निषिद्धमित्यर्थः । यदाह श्रीपतिः-'जाहकाहिशशसूकरगोधाकीर्तनं शुभमुदाहृतमायैः । नो रुतं न च विलोकनमेषामन्यथा गदितमृक्षकपीनाम् ॥' इति । वसिष्ठः-'शाखामृगाख्यभल्लूकदर्शनं शब्दितं तथा। शशसूकरगोधानां यातुः कार्यविनाशनम् ॥' इति । शाखामृगः वानरः । अथ विशेषमाह-नद्युत्तारेति । नद्या गंगादेरुत्तारणे भये भयसंबंधिनि कार्य पलायनादिके प्रवेशे गृहप्रवेशे समरे संग्रामे नष्टस्यार्थस्य द्रव्यस्य संवीक्षणे गवेषणे एतत्कृत्यसंबंधिनि गमने क्रियमाणे सति प्रागुक्ताः शुभाशुभाः शकुना व्यत्यस्ता ज्ञेयाः । शुभशकुनाः 'विप्राश्वेभ-' (१११९७-९८) इत्यादयोऽशुभा ज्ञेयाः। 'वंध्याचर्म-' (२११९९-१०० )इत्यायशुभशकुनाः शुभफलदा ज्ञेया इत्यर्थः । यदाह वसंतराज:-'नधुत्तारे भये युद्धे प्रवेशे नष्टवीक्षणे । शकुना व्यस्तगाः शस्ता नृपालोके प्रयाणवत्॥' इति । वराहः-'नद्युत्तरणयुद्धेषु प्रवेशे नष्टमागेणे । यानव्यस्तगताः शस्ताः शकुना दैवचिंतकैः ॥' इति । नृपेति । नृपस्येक्षणविधौ दर्शनार्थगमने यात्रायामुदिताविप्राश्वेभेत्यादयःशुभशकुनाः शोभना ज्ञेयाः । 'नृपालोके प्रयाणवत्' इत्युक्तेः। श्रीपतिरपि-'नृपावलोके शकुनः प्रयाणवत्' इति । राजदर्शनस्य भयस्थानत्वात्तदपवादोऽयम् ॥ १०१ ॥ अथ कोकिलादीनां वामांगभागेन शकुनमनुष्टुभाहवामांगे कोकिला पल्ली पोतकी सूकरी रला । पिंगला छुच्छुकाः श्रेष्ठाः शिवाः पुरुषसंज्ञिताः ॥ १०२ ॥ वामांग इति ॥ कोकिलापल्लयौ प्रसिद्धे, पोतकी दुर्गेति पितृचरणाः । सूकरी जात्यचटिका, रला पक्षिविशेषः, पिंगला भैरवी, छुच्छुका छुच्छंदरी, शिवा शृगाली, पुरुषसंज्ञिताः पुन्नामानः कपोतखंजनतित्तिरहंसादयः; एते गच्छतां राजादीनां वामांगे शरीरवामभागे शस्ताः स्युः । यदाह श्रीपतिः'छुच्छुका भवनगोधिका रला पिंगला पिकवधूश्च पोतकी। सूकरी पुरुषसंज्ञिताः शिवा वामतः खलु यियासतां शुभाः ॥' इति । वराहोऽपि-शिवा श्यामा रला छुच्छुः पिंगला गृहगोधिकाः । सूकरी परपुष्टा च पुनामानश्च वामतः॥' इति । श्यामा पोतकी भवनगोधिका पल्ली परपुष्टा कोकिला ॥ १०२॥ अथ दक्षिणांगभागावस्थितं शकुनं चानुष्टुभाहछिकरः पिकको भासः श्रीकंठो वानरो रुरुः । स्त्रीसंज्ञकाः काकऋक्षश्वानः स्युदक्षिणाः शुभाः॥१०३॥ छिक्कर इति ॥ छिक्करो मृगजातिः, पिक्ककः पक्षिविशेषः, भासः पक्षी, श्रीकंठः पक्षिविशेषः, वानरः प्रसिद्धः, रुरुमंगविशेषः-स्त्रीसंज्ञकाः। काकः प्रसिद्धः, ऋक्षो भल्लूकः, अत्रापि 'ऋत्यकः' इति प्रकृतिभावः। वा कुक्कुरः; एते.

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484