Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 409
________________ गमनसमयविधिः] यात्राप्रकरणम् ११ । सप्तम्यामष्टम्यां बीजपूरकम् । नवम्यां तोयपानं स्यागोमूत्रं तु ततः परम् ॥ एकादश्यां यवानद्यावादश्यां पायसं भवेत् । त्रयोदश्यां गुडं लेां रुधिरं स्थाच्चतुर्दशे ॥ मुद्गौदनं भवेगोज्यं पंचदश्यां यियासतः। पक्षयोरुभयोरेवं यात्रायोगे विधिः स्मृतः ॥' इति । दैवज्ञमनोहरेऽपि क्वचि दो यथा-'अर्कदलतंदुलोदकसपौषि हविष्यदधिसुवर्णपयः । तिलवारिबीजपूरकमध्वाज्यकसूत्रपिष्टिकाश्चापि ॥ तिलपिष्टकंदमूलानि शाकमथ शस्तवृक्षपर्णानि । प्रतिपप्रभृतिषु भुक्त्वा प्रस्थाता सिद्धिमामोति ॥' इति । ननुच-'अलभ्यलभ्याऽभक्ष्यान्वा स्मृत्वा दृष्ट्वाथ तान्व्रजेत् । दत्त्वा वा सिद्धिमानोति दुष्टभादिषु भूपतिः॥' इति गुरूक्तेः वारादिषु दोहदाभिधानं सार्थकं, विहितेषु पुनर्नक्षत्रतिथिवारादिषु दोहदाभिधानं व्यर्थम् , दोषनिवारणफलको हि दोहदस्तदभावेन वैयर्थ्यप्रसंगात् । उच्यते-'दुष्टभादिषु भूपतिः' इत्यत्र दुष्टत्वं किं नैसर्गिकमुतान्याहितं इति विशेषानभिधानात् सत्यावश्यकगमने राज्ञां बलेनैव गमने प्राशस्त्याभिधानात् यदि विहितनक्षत्रेष्वपि क्रूरग्रहसाहित्यादिर्महान् दोषः संभावितोऽस्ति तदपाकरणाय दोहदाभिधानं युक्तम् । एवं सर्ववर्णानामपि पारिघदंडे विरुद्धताराक्रूरग्रहसाहित्यादिमहादोषनिवारणाय दोहदोक्तेः सार्थक्याच्च । एवं विहिततिथिदोहदाभिधानं योगिन्यादिदोषनाशार्थ 'सङ्करराशेरशुभा तिथिः स्यात्' इत्येतद्दोषनिवारणार्थं च तदोषाभिधानम् । रत्नमालायां च-'आद्याश्चतस्रः क्रियपूर्वकाणां मेषाच्चतुर्णामिह पंचमी स्यात् । पराः परेषां परतस्तथैव सङ्करराशेरशुभा तिथिः स्यात् ॥' इति । एवं वारदोहदोक्तिरपि वक्रिग्रहवारशूलादिदोषहान्या सार्थिका । दिग्दोहदोक्तिरपि त्रिविधप्रतिबुधप्रतिशुक्रप्रतिभौमादिदोषहान्या सार्थिका ॥ ८५॥ अथ गमनसमयभवं विधि प्रहर्षिणीछंदसाहउद्धृत्य प्रथमत एव दक्षिणांघ्रि द्वात्रिंशत्पदमभिगत्य दिश्ययानं । आरोहेत्तिलघृतहेमताम्रपात्रं दत्त्वादौ गणकवराय च प्रगच्छेत् ॥ उद्धृत्येति ॥ राजा गमनसमय एव प्रथमतो दक्षिणांघ्रिं दक्षिणचरणमुद्धृत्य पश्चावात्रिंशत्पदं द्वात्रिंशत्पदपरिमितां भूमिं गत्वा दिश्ययानं वक्ष्यमाणं दिग्विशेषे हस्त्यादियानमारोहेदिति । यदाह गुरुः- पूर्व दक्षिणमुद्धृत्य पादं यायानराधिपः । द्वात्रिंशतं पदं गत्वा यानमारुह्य संव्रजेत् ॥' वराहोऽपि-'कल्याणनामसचिवाप्तजनायुधीयदैवज्ञविप्रजनकंचुकिमध्यसंस्थः । द्वात्रिंशतं समुपगम्य पदानि भूमौ प्रागादि नागरथवाजिनरैस्तु यायात् ॥' इति । तिलेति । आरोहणसमये तिलघृतहेमसहितं ताम्रपात्रमादौ गणकवराय ज्योतिर्विच्छ्रेष्ठाय चकारादन्येभ्योऽपि ब्राह्मणेभ्यो यथाशक्ति दानं दत्वा प्रगच्छेत् । यदाह गुरुः-'ताम्रपाने तिलान्कृत्वा सघृतान्हेमसंयुतान् । निवेद्य विप्रमुख्याय दैवज्ञाय विशेषतः ॥' इति ॥ ८६ ॥

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484