Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 415
________________ अकालवृष्टिदोषः ] यात्राप्रकरणम् ११ । ३९९ स्वकीयां वा स्त्रियं पुरुषमेव वा । ताडयित्वा तु यो मोहात्तदंतं तस्य जीवितम् ॥ यात्रायां प्रस्थितो यश्च ब्राह्मणानवमानयेत् । नासौ प्रतिनिवर्तेत तदंतं तस्य जीवितम् ॥' इति । केचित् शुभाशुभशब्दान् यात्राकाले शुभाशुभसूचकानाहुः । यदाह लल्लः - 'प्रापय गच्छ विसर्जय निर्गच्छ व्रज विमुंच संसर्प । सिद्धिकराः खल्वेते प्रमोदजयजीवशब्दाश्च ॥ मा गास्तिष्ठ निवर्त व गम्यते मूढ दुर्मते मोहात् । यात्रां नेच्छंति बुधाः क्षुतका सितभीतशब्दैश्च इति । कासितं = रोगार्तध्वनिर्हिक्कादिः ॥ ९४ ॥ अथ कालवृष्ट्याख्यं दोषं सलक्षणं वसंतमालिकाछंदसाह— यदि मास्सु चतुर्षु पौषमासादिषु वृष्टिर्हि भवेदकालवृष्टिः । पशुमर्त्यपदांकिता न यावद्वसुधा स्यान्न हि तावदेव दोषः ॥ ९५ ॥ यदीति ॥ पौषादिषु चतुर्षु पौषमाघफाल्गुन चैत्राख्येषु मासेषु यदि वृष्टिर्भवेत् साऽकालवृष्टिः स्यात् । पौषादयश्चत्वारो मासा वृष्ट्यकालः, तत्र भवा वृष्टिरकालवृष्टिरुच्यते । यदाह राजमार्तडः - ' पौषादिचतुरो मासान् प्राप्ता वृष्टिरकालजा ॥' इति । तत्राकालवृष्ट्यां जातायां यदि वसुधा पृथ्वी यावत्पशवो गवादयः मर्त्या मनुष्यास्तेषां पदैश्वरणैरंकिता चिह्निता न भवति तावदकालवृष्टिदोषो नास्ति । यदा पशुचरणांकिता वसुधा स्यात्तदाऽकालवृष्टेर्दोषवत्त्वमस्येव । यदाह राजमार्तड : - ' वृष्टिः करोति दोषं तावन्नाकालसंभवा राज्ञाम् । यावन्न भवति याने नरपशुचरणांकिता वसुधा ॥' इति । अस्यार्थः- अकालसंभवा वृष्टिः राज्ञां गमने तावद्दोषं न करोति । यावद्वसुधा याने गमने नरपशुचरणांकिता न भवति । तेनातिस्वल्पया रजोपगममात्र भवति । तत्र पश्वादिचरणचिह्नाभावाद्दोषाभावः । यदा तु किंचिदधिका वृष्टिः स्यात्तदा कर्दमसद्भावात्पश्वादिचरणचिह्नानि जायंते तदा दोष एव । स च सप्तरात्रिक इत्युक्तं प्राक् । अत्र केचिदल्पा वृष्टिर्दोषाय, न महतीति वदंति । तत्रेयं युक्तिः – अल्पवृष्ट्या कर्दमबाहुल्यात्पश्वादिचरणचिह्नानां वसुधायां दर्शनादित्यल्पवृष्टेर्दोषवत्त्वम्, महत्त्वात्तु वृष्ट्याः सकलकर्दमापाकरणात्पश्वादिचरणचिह्नादर्शनाद्दोषाभावः । तदेतदृषिप्रणीत संहिताग्रंथाभिहितविषयाऽज्ञानां केवलन्यायाभिनिविष्टमनसां मतम् । तथा हि- मार्गशीर्ष शुक्लपक्षप्रतिपदादयः सार्धाः षण्मासा मेघानां गर्भग्रहणकालस्तदनंतरं वृष्टिर्भवति । यदाह कश्यपः - 'सितादौ मार्गशीर्षस्य प्रतिपद्दिवसे तथा । पूर्वाषाढागते चंद्रे गर्भाणां धारणं वदेत् ॥' इति । गर्गोऽपि - 'शुक्लादौ मार्गशीर्षस्य पूर्वाषाढाव्यवस्थिते । निशाकरे तु गर्भाणां तदादौ लक्षणं वदेत् ॥' इति । गर्भप्रसवकालज्ञानं वराहेण प्रोक्तम्- 'यन्नक्षत्रमुपगते गर्भश्चंद्रे भवेत्स चंद्रवशात् । पंचनवतौ दिनशते १९५ तत्रैव प्रसवकालमायाति ॥' इति । माससंहितायां च 'पौषासितपक्षाद्यैः श्रावण शुक्लादयो विनिर्देश्याः । साधैः षड्भर्मासैर्गर्भविपाकः स्वनक्षत्रे ॥' इति । विशेषमाह वराहः - 'सितपक्षभवाः कृष्णे शुक्ले कृष्णा

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484