Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 417
________________ दुष्टशकुनशांतिः] यात्राप्रकरणम् ११ । ४०१ वृष्टिर्यदि भवेत्सस्यानामीतिकारणम् ॥' इति । अत्र रक्तवृष्ट्यादीनां वृष्टित्वादेव निषेधे सिद्धे पुनर्ग्रहणं कृतं तत्कालवृष्टावण्यासां वृष्टीनां दोषसूचनार्थम् । यत आसां वृष्टीनामुत्पातत्वमस्ति, 'तेषां संक्षेपोऽयं प्रकृतेरन्यत्वमुत्पातः' इति वराहोक्तेः ॥ ९५ ॥ अथामुमेवार्थ स्पष्टीकुर्वन्सन्नावश्यकयात्रायां तच्छांतिकं प्रसंगाढुष्टशकुनोद्भूतारिष्टशांतिकं चातिशक्कां गाथाछंदसाहअल्पायां वृष्टौ दोषोऽल्पो भूयस्यां दोषो भूयान् जीमूतानां निर्घोषे वृष्टौ वा जातायां भूपः । सूर्यन्द्वोर्बिबे सौवर्णं कृत्वा विप्रेभ्यो दद्या दुःशाकुन्ये साज्यं स्वर्ण दत्त्वा गच्छेत्स्वेच्छाभिः॥९६॥ अल्पायामिति ॥ अल्पायामकालवृष्टावल्पो दोषः स्यात् । भूयस्यामतिशयेन बह्वी भूयसी तस्यामकालवृष्टौ भूयानतिशयेन महान्दोषः । अतो यत्प्राच्याः पठंति-'तावत्प्रयाणादिषु भूपतीनामकालवृष्टिः प्रकरोति दोषम् । यावद्भवेत्संचरतां जनानां तथा पशूनां चरणांकिता भूः ॥' इति, तदेतन्निर्मूलत्वाद्युक्त्यसहत्वाच्चोपेक्ष्यम् । अयं चाकालवृष्ट्याख्यो दोषः प्रयाणानंतरं सप्तरात्रं यावद्विलोकनीय इति महादेवेन व्याख्यातं, न तत्र प्रमाणं पश्यामः । किंतु जातायामकालवृष्टौ यात्रामेव न कुर्यात् । कृते तु स्वयं प्रस्थाने मार्गमध्ये नास्त्ययं दोषः। शुक्राद्यस्तादिदोषो मार्गमध्ये 'जीवः शशांकः शुक्रो वा' इति वचनबलादंगीक्रियते । प्राच्यास्तु महत्यामकालवृष्टौ दोषाभावं वर्ण. यति तेषामाशयं न विद्मः। अथ सत्यप्यकालवृष्ट्यादिनिमित्ते आवश्यकयात्रायां दानमाह-जीमूतानामिति ॥ जीमूतानां मेघानां नि?षे शब्दे वृष्टावकालवृष्टौ जातायां वा सूर्येद्वोः सूर्याचंद्रमसोबिंबे स्वरूपे सौवर्णे यथाशक्ति सुवर्णनिर्मिते कृत्वा भूपो राजा विप्रेभ्यो ब्राह्मणेभ्यो दद्यात् । यदाह मांडव्यः'दुर्दिने गर्जिते वृष्ट्या सूर्याचंद्रमसोईयोः। बिंबे विधाय शांत्यर्थं श्रोत्रियाय निवेदयेत् ॥' इति । यद्यपि 'श्रोत्रियंश्छंदोधीते' इति पाणिनिवचनाच्छंदोऽध्येतृत्वेन श्रोत्रियत्वमुच्यते, तञ्च वर्णत्रयसाधारणम् । तथापि प्रतिग्रहाधिकारी ब्राह्मण एव श्रोत्रियशब्देन व्याकर्तव्यः । अत एव मूले विप्रपदोपादानम् । अकालवृष्टौ शांतिर्महता ग्रंथसंदर्भेण बृहद्यात्रायां वराहेणाभ्यधायि, सातत एवावधार्या । क्वचिदकालवृष्टेरपवादः पठ्यते । यथा-'एकेनैकमहः प्रोक्तं द्वितीयेन त्रिरात्रकम् । तृतीयेन तु सप्ताहं दशरात्रमतः परम् । पौषे दिनत्रयं वयं माघे चैव दिनद्वयम् । फाल्गुने दिनमेकं तु चैत्रे तु घटिकाद्वयम् ॥' इति, तदेतदप्यात्ययिककार्यविषयं ध्येयम् । अथ प्रसंगाढुष्टेऽपि शकुने जातेऽवश्यविधेयायां यात्रायां दानमाह-दुःशाकुन्ये इति । शकुन एव शाकुन्यम् । चतुर्वर्णादेराकृतिगणत्वात्ष्यञ्।दुष्टं च तत् शाकुन्यं च दुःशाकुन्य,

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484