Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
शुभसूचकशकुनाः] यात्राप्रकरणम् ११ ॥
४०३ ज्यदधिगोवृषाः । मत्स्यमांससुराधौतवस्त्रशंखरवध्वजाः ॥ पण्यस्त्रीपूर्णकलशरत्न,गारदर्पणम् । भेरीमृदंगपटहशंखवीणादिनिःस्वनाः ॥ वेदमंगलघोषाः स्युर्याने वै कार्यसिद्धिदाः' इति । श्रीपतिरपि-'भारद्वाजो नाकुलश्चाषसंज्ञइछागो बहीं शोभनो वीक्षितः स्यात् । भंगारांजनवर्धमानमुकुराबढेकपश्वामिषोष्णीषक्षीरनृयानपूर्णकलशच्छत्राणि सिद्धार्थकाः । वीणाकेतनमीनपंकजदधिक्षौद्राज्यगोरोचनाः कन्याशंखसितोक्षवस्तुसुमनोविप्राश्वरत्नानि च ॥ प्रज्वलज्वलनदंतितुरंगभद्रपीठगणिकांकुशमृत्स्नाः । अक्षतेक्षुफलचामरभक्ष्याण्यायुधानि च भवंति शुभानि ॥ भेरीमृदंगमृदुमर्दलशंखवीणावेदध्वनिर्मधुरमंगलगीतघोषाः । पुत्रान्विता च युवतिः सुरभिः सवत्सा धौतांबरश्च रजकोऽभिमुखः प्रशस्तः ॥' इति । शृंगारः सुवर्णकलशः। 'शृंगारः कनकालुका' इत्यमरः । वर्धमानः शरावः, 'शरावो वर्धमानकः' इत्यमरः । वसिष्ठः-'दृष्टे शवे रोदनवर्जिते च संपूर्णयात्राफलमेव तत्र । दृष्टः प्रवेशे तु शवः शवत्वं करोति तद्रोदनवर्जितोऽपि ॥' इति । कश्यपोऽपि-कार्यसिद्धिर्भवेद्दष्टे शवे रोदनवर्जिते । प्रवेशे रोदनयुतः शवः स्यात्तु शवप्रदः ॥' इति । वसंतराजः-'आदाय रिक्तं कलशं जलार्थी यदि व्रजेत्कोऽपि महाध्वगेन । पूर्ण समादाय निवर्ततेऽसौ यथा कृतार्थः पथिकस्तथैव ॥' इति । एतानि शकुनानि यदि दैवात्स्युस्तदोत्तमान्येव । यदि वा स्वयं रचितानि तदापि शुभान्येव । यदाह वराहः-'स्वयमथ रचितान्ययत्ततो वा यदि कथितानि भवंति मंगलानि । स जयति सकलां ततो धरित्री ग्रहणदृशां श्रुतिपाठतो यथांहः॥' इति । शकुनप्रयोजनमाह वराहः-'अन्यजन्मांतरकृतं शुभं वा यदि वाऽशुभम् । यत्तस्य पाकं शकुनो निवेदयति गच्छताम् ॥' इति । लल्लोऽपि-'नक्षत्रस्य मुहूर्तस्य तिथेश्च करणस्य च । चतुर्णामपि चैतेषां शकुनो दंडनायकः॥' इति । अत्र कैश्चिल्लग्नवशेन शुभसूचकाः शकुना उक्ताः 'लग्ने वाक्पतिशुक्राणां ब्राह्मणाः संमुखाः स्त्रियः । बुधशुक्रौ च केंद्रस्थौ सवत्सा गौः प्रदृश्यते ॥ चंद्रसूयौं च भवतो दशमस्थौ यदाऽथवा । दीपादशौं सुमनसो रजका धौतवाससः ॥ सुतस्थाने यदा सौम्यो वृषो बद्धस्तु संमुखः । गुरुश्चेत्पंचनवमो दक्षिणे सझ वायसः ॥ चंद्रो गुरुश्च सहजे श्वानो वामांगभागतः । सर्वे कर्मायनवमे भारद्वाजोऽथ नाकुलः ॥ चाषस्य दर्शनं वा स्थाद्वामांगेऽत्यंतदुर्लभम् । मादित्यो राहुसौरी च सहजस्थौ कुमारिका ॥ प्रौढानां सुभगानां वा दर्शनं सर्वकामदम् । षष्ठे तृतीये कर्माये भौमश्चेत्तत्फलं भवेत् ॥ दास्यो वेश्या सुरा मांसं लाभश्चैव सुनिश्चितः ॥ सप्ताष्टपंचमे यस्य जीवो ज्ञो वात्र वर्तते । आदर्शपुष्पमांसानि सुरादर्शश्च लाभदः ॥ राहुभौमश्च मंदश्च लग्नाद्यदि तृतीयगः । उद्धृतं गोमयं पश्येच्छीघ्रं लाभं धनं दिशेत् ॥' इति । एवमादीनि शकुनानि लग्नबलेन शकुनग्रंथेष्वभिहितानि, तानि तत एवावधार्याणि विस्तरभयानास्माभिर्लिख्यंत इति ॥ ९७-९८ ॥
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4ddb2959f5faa5e999ebd175cf0a8274c6ab4569364bcd9d814fee2428a0e172.jpg)
Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484