Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 411
________________ प्रस्थानपरिमाणं] यात्राप्रकरणम् ११ । उक्तं च वसिष्ठेन-'श्वेतातपत्रध्वजचामराश्वविभूषणोष्णीषगजांबराणि ॥मांदो. लिकारतरथाश्चवारान्छय्यासनाचं मनसस्त्वभीष्टम् ॥' इति । नारदोऽपि'भप्रयाणे स्वकं कार्यमपेक्षी भूपतिस्तथा । कुर्यानिर्गमनं छत्रध्वजवाहनसंयुतम् ॥' इति ॥ ८९॥ अथ स्वयं गमने कियङ्करं प्रस्थानं कार्यमित्येतदाशंक्य प्राच्यमतेन प्रस्थानपरिमाणं मंदाक्रांताछंदसाह गेहाद्हांतरमपि गमस्तर्हि यात्रेति गर्गः सीम्नः सीमांतरमपि भृगुर्वाणविक्षेपमात्रम् । प्रस्थानं स्यादिति कथयतेऽथो भरद्वाज एवं यात्रा कार्या बहिरिह पुरात्स्याद्वसिष्ठो ब्रवीति ॥९॥ गेहादिति ॥ स्वगृहात्परगृहमतिसमीपवर्त्यपि तत्रापि चेद्गमो गमनं स्यात्तर्हि यात्रा जातेति गर्गः कथयते । अथवा स्वग्रामसीमामुलंध्य सीमांतर ग्रामांतरसीमां प्राप्य वसेदिति भृगुः कथयते । अथवा महता योद्धा स्वबलेन क्षिप्यमाणः शरो यावरं गच्छति तावन्मानं प्रस्थानं स्यादिति भरद्वाजः कथयते । अथवा पुरानगराबहिर्यात्रा कार्या स्यादित्येवं वसिष्ठः कथयते । यदाह राजमार्तड:-'गृहाद्गृहांतरं गर्गः सीनः सीमांतरं भृगुः । शरक्षेपारद्वाजो वसिष्ठो नगराबहिः ॥' इति । एतच्च यथायोग्य कार्यस्यावश्यकतायां च ध्येयम् ॥ ९० ॥ अथ मुनिमतेन प्रस्थानपरिमाणं वसंततिलकाछंदसाहप्रस्थानमत्र धनुषां हि शतानि पंच केचिच्छतद्वयमुशंति दशैव चान्ये । संप्रस्थितो य इह मंदिरतः प्रयातो गंतव्यदिक्षु तदपि प्रयतेन कार्यम् ॥ ९१ ॥ प्रस्थानमिति ॥ धनुषः परिमाणमाह भास्करः-'नवोदरैरंगुलमष्टसंख्यैर्हस्तोऽङ्गुलैः षड्गुणितैश्चतुर्भिः । हस्तैश्चतुर्भिर्भवतीह दंडः क्रोशः सहस्रद्वितयेन तेषाम् ॥' इति । अत्र गमनकाले तादृशानां धनुषां पंचशतानि, हस्तसहस्रद्वयमिति यावत् । स्वगृहात्तावद्धस्तावधि प्रस्थानं स्यादिति केचिदूचुः । अन्ये तु तादृशानां धनुषां शतद्वयमष्टौ शतानि हस्तास्तावत्प्रस्थानमित्याहुः । अपरे तु इह यात्राकाले मंदिरतः स्वगृहाद्दशैव धनूंषि चत्वारिंशद्धस्तास्तावहूरे संप्रस्थितः प्रयात एव ज्ञेय इत्याहुः । यदाह वसिष्ठः-'प्रस्थान धनुषां पंचशतान्युत शतद्वयम् । स्वदेवसदनाद्वापि दशभिः प्रस्थितो गतः ॥' इति । नायं स्वेच्छाविकल्पः किंतु कार्यस्यानावश्यकावश्यकत्वात्ताशप्रस्था १ दंडः धनुर्दड इत्यर्थः ।

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484