Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 394
________________ मुहूर्तचिंतामणिः। [योगयात्रालग्नानि शत्रवः शलभा इव स्युः। यथा शलभा अग्नौ स्वयमेव गत्वा पतंति तथा शत्रवोऽपि गंतृराजप्रतापानले पतिष्यतीत्यर्थः । यदाह वराहः-'मूर्तिवित्तसहजेषु संस्थिताः शुक्रचंद्रसुततिग्मरश्मयः। यस्य यानसमये रणानले तस्य यांति शलभा इवारयः ॥' इति ॥ ६० ॥ अथान्यद्योगलग्नमाह उदये रविर्यदि सौरिररिगः शशी दशमेऽपि । वसुधापतिर्यदि याति रिपुवाहिनी वशमेति ॥ ६१ ॥ उदय इति ॥ अस्य गाथाछंदः प्राग्वत्स्वमते ग्रंथांतरे च । यदि उदयलग्ने रविः स्यात् , सौरिः अरिगः षष्ठस्थः स्यात् , शशी दशमस्थः स्यात् ,तदा एवंविधे योगे वसुधापतिः राजा याति तदा रिपुवाहिनी शत्रुसेना वशमेतीति । यदाह नारदः-व्यापारशत्रुमूर्तिस्यैश्चंद्रमददिवाकरैः । रणे गतस्य भूपस्य जयलक्ष्मी प्रमाणिका ॥' इति । व्यापारः दशमम् । वराहोऽपि-'दिवाकरो लग्नगतो यदि स्यात्षष्ठेऽर्कसूनुर्दशमे शशी च । योगेऽत्र यातस्य न तिष्ठतेऽन्यो बलेन हीनस्य बलान्वितोऽपि ॥' इति ॥ ६ ॥ अथान्यद्योगयात्रालग्नद्वयमाहतनौ शनिकुजौ रविर्दशमभे बुधो भृगुसुतोऽपि लाभदशमे । त्रिलाभरिपुभेषु भूसुतशनी गुरुज्ञभृगुजास्तथा बलयुताः ॥६२॥ तनाविति ॥ अस्य जगत्यां जलोद्भुतगतिछंदः । तल्लक्षणं च-रसैजसजसा जलोद्धतगतिः' रसैः षभिःषभिरक्षरैयतिर्विच्छेदः। इत भारभ्य 'वसुधापतियदि याति रिपुवाहिनी वशमेति'इत्युत्तरार्ध 'सहजे कुजः' (११।७२)इत्येतस्पधपयेतमनुवर्तते। तेन यत्र यत्र श्लोके फलनिर्देशो नास्ति तत्र जिगमिषो राज्ञो विजयः स्यादिति वाक्यार्थो ध्येयः । तनौ लग्नस्थौ शनिमंगलौ यथासंभवं स्यातां, रविर्दशमभे स्यात् , बुधो लाभे दशमे वा स्यात् , भृगुसुतो वा लाभे दशमे वा स्यात् । तदेवंविधे योगे प्रचलितस्य राज्ञो जयः स्यात् । यदाह वराहः'सौरौ भौमे लग्नगेऽर्के खमध्ये कर्मण्याये भार्गवे चंद्रजे वा । यायाभूपः शत्रुदेशं निहंतुं दृप्तं शत्रु कालवस्क्रूरचेष्टः ॥' इति । गुरुरपि-'मारे वा सूर्यजे वापि लग्नगे दशमे रवौ। कर्मण्याये सिते ज्ञे वा योगोऽयं यातुरुत्तमः ॥' इति । अयमेको योगः। अथ द्वितीययोगः । त्रिलाभरिपुभेषु तृतीयैकादशषष्ठस्थानानामन्यतमस्थानद्वयस्थितौ भूसुतशनी मंगलशनैश्चरौ यदि स्यातां, चेद्यस्मिन् कसिंश्चित्स्थाने स्थिता गुरुज्ञभृगुजा बलयुताः स्युः, तदैवंविधे योगे तथा राज्ञो विजय इत्यर्थः। यदाह नारदः-'त्रिषडायेषु सौरारौ बलवंतः शुभा यदि । यात्रायां नृपतेस्तस्य करस्था शत्रुमेदिनी ॥' इति । श्रीपतिरपि-न्यायारिषु यमारौ चेच्छक्तिभाजः शुभग्रहाः । प्रयाणे नृपतेर्यस्य हस्तस्था तस्य मेदिनी ॥' इति । शुभग्रहाश्चंद्ररहिता विवक्षिताः। यदाह

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484