Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 531
________________ ४२८] सिद्धान्तकौमुदी। [तद्धितषु भावकर्मार्थाःनपूर्वात्तत्पुरुषादचतुरसङ्गतलवणवटयुधकतरसलसेभ्यः । (५-१-१२१) इतः परं ये भावप्रत्ययास्ते नन्तत्पुरुषान स्युश्चतुरादीन्वर्जयित्वा । अपतित्वम् । अपटुत्वम् । नम्पूर्वात् किम्-बार्हस्पत्यम् । तत्पुरुषात् किम्-नास्य पटवः सन्तीस्यपटुः, तस्य भाव आपटवम् । प्रचतुर इति किम्-वाचतुर्यम् । श्रासङ्गत्यम् । मालवण्यम् । श्रावट्यम् । प्रायुध्यम् । श्राकत्यम् । पारस्यम् । श्रालस्यम् । १७८४ पृथ्वादिभ्य इमनिज्वा । (५-१-१२२) वावचनमणादिसमापाठात् । न नपूर्वात् । इतः परमिति । त्वतल्विधेर्ध्वमित्यर्थः, 'नपूर्वाद् इत्युत्तरस्य प्रतिषेधः' इति भाष्यादिति भावः । चतुरादीनिति । चतुर, संगत, लवण, वट, युध, कत, रस, लस एतान् वर्जयित्वेत्यर्थः । अपतित्वमिति । इह 'पत्यन्तपुरोहितादिभ्यः' इति यक् न भवति । अपटुत्वमिति । इह 'इगन्ताच्च लघुपूर्वात्' इत्यण न भवति । बार्हस्पत्यमिति । 'पत्यन्तपुरोहितादिभ्यः' इति यक् । आपटवमिति । 'इगन्ताच्च लघुपूर्वात्' इत्ला । अपटुशब्दस्य बहुव्रीहित्वात्तत्पुरुषत्वाभावान्नास्याणो निषेध इति भावः । आचतुर्यमिति । अचतुरस्य नावः, ब्राह्मणादित्वात्म्यञ् । आसंगत्यमिति । असंगतशब्दात् ष्यञ् । पालवण्यमिति । अलवणशब्दात् ध्यञ्। श्रावट्यमिनि । न वटः अवटः, तस्मात् ष्यञ् । प्रायुध्यमिति । अयुधशब्दात् ध्यञ् आकत्यमिति । अकतशब्दात् ष्यञ् । पारस्यमिति । अरसशब्दात् व्यञ् । आलस्यमिति । लसतीति लसः, न लसः अलसः, तस्मात् ध्यञ्। पृथ्वादिभ्य इमनिज्वा । 'तस्य भावः' इत्यनुवर्तते । पृथ्वादिभ्यः षष्ठ्यन्तेभ्यो भावे इमनिज् वा स्यादित्यर्थः । ननु 'वा' ग्रहणं व्यर्थम् , 'समर्थानां प्रथमाद्वा' इति महाविभाषयैव वाक्यस्य सिद्धत्वात् । नच इमनिजभावे त्वतल्प्रत्ययार्थ वाग्रहणमिति वाच्यम् , श्रा च त्वादित्येव तत्समावेशसिद्धरित्यत आह-वावचनमणादिसमावेशार्थमिति । पृथुमृदुप्रभृतिषु 'इगन्ताच्च लघुपूर्वात्' इत्यणः, चण्डखण्डादिषु गुणवचनलक्षणष्यञः, बालवत्सादिषु वयोवचनलक्षणस्य भञश्च औत्सर्गिकस्य समावेशार्थमित्यर्थः । अन्यथा महाविभाषावशाद् 'अपवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते' इति 'पारे मध्ये खयि-' इति रुत्वम् । पाक्षिकावनुनासिकानुस्वारी, विसणे कृते सत्वम् । अपतित्वमिति । इह 'पत्यन्त-' इति यग् न भवति । अपटुत्वमिति । इह तु 'इगन्ताच लघुपूर्वात्' इत्यण न भवति । आचतुर्यमित्यादि । ब्राह्मणादित्वात् घ्यञ् । पृथ्वादिभ्यः । अणादीति । इगन्तलघुपूर्वेषु पृथुमृदुप्रभृतिष्वणः समावेशः । चण्डखण्डादिषु गुणवचनेषु ष्यमः । बालवत्सादिषु वयोवचनलक्षणस्यात्र

Loading...

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716