Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 681
________________ ६७८ ] सिद्धान्तकौमुदी । [ द्विरुक्त पात्राणि प्रयुनक्ति । द्वन्द्वं सङ्कर्षणवासुदेवौ । श्रभिव्यक्तौ साहचर्येणेत्यर्थः । योगविभागादन्यत्रापि द्वन्द्वम् इष्यते । इति द्विरुक्तप्रकरणम् । इति श्रीभट्टोजिदीक्षितविरचितायां सिद्धान्तकौमुद्यां पूर्वार्ध समाप्तम् । भाष्याल्लभ्यते । तदाह साहचर्येणेत्यर्थ इति । अत्र द्वन्द्वं न्यञ्चीत्यत्र वीप्सायां द्वित्वम् । अन्यत्र स्वार्थे इति बोध्यम् । अन्यत्रापीति । द्वन्द्वानि सहते इत्यादावित्यर्थः । शीतमुष्णं च एकं द्वन्द्वम् । सुखं दुःखं चापरम् । क्षुत्तृष्णा चान्यत् । इह स्वार्थे द्वन्द्वः । श्रम्भावादि पूर्ववत् । 'चार्थे द्वन्द्वः' इति निपातनादन्यत्रापीति सिद्धम् । इति द्विरुक्तप्रकरणम् । इति श्रीमत्सन्ततसन्तन्यमानश्येनकूर्म षोडशाररथचक्राकारादिबहुगुणविराजमानप्रौढापरिमितमहाध्वरस्य श्रीशाहजी शरभतुकोजी भोसलचोलमहीमहेन्द्रामात्यधुरन्धरस्य श्रीमत आनन्दराय विद्वत्सार्वभौमस्याध्वर्युणा पञ्च पुरुषी पोष्येण बाल्य एव तद्द्यानिर्वर्तितापरिमिताग्निविजृम्भितवाजपेय सर्वपृष्टाप्तोर्यामप्रमुखमखसन्तर्पितशतमखप्रमुखबर्हिर्मुखेन पदवाक्यप्रमाणपारावारपारीणाग्रजन्मविश्वेश्वरवाजपेययाजितो लब्धविद्यावैशद्येन अध्वर मीमांसा कुतूहल वृत्तिनिर्माण प्रकटित सर्व तन्त्रस्वातन्त्र्येण बौधायनापस्तम्ब सत्याषाढ भारद्वाज कात्या- . यनाश्वलायनद्राह्यायणादिकल्पसूत्रतद्भाष्यपारीणमहादेववाजपेययाजिसुतेन अन्नपूर्णाम्बा गर्भजातेन वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां पूर्वार्ध सम्पूर्णम् । यज्ञपात्राणीति । 'स्फ्यश्च कपालानि च' इत्यादीनि पात्राणि द्वन्द्वं प्रयुनक्ति । श्रासादयतीत्यर्थः । अभिव्यक्तौ साहचर्येणेत्यर्थ इति । अत्र द्वन्द्वमित्यत्र स्वार्थे द्विर्वचनम् । एकवद्भावादिकं तु पूर्ववत् । अन्यत्रापीति । 'द्वन्द्वं युद्धं प्रवर्तते ' इह वीप्सायां द्विर्वचनम् । द्वयोर्द्वयोर्युद्धमित्यर्थः । 'द्वन्द्वानि सहते' शीतमुष्णमेकं द्वन्द्वं सुखदुःखे चापरं क्षुत्तृष्णे चापरम् । इह स्वार्थे द्विर्वचनमेकवद्भावादि पूर्ववत् । बहुत्वं त्वशेषवशात् । इति तत्त्वबोधिनीव्याख्यायां द्विरुक्तप्रक्रियाप्रकरणम् । सिद्धान्तकौमुदीव्याख्या या कृता तत्त्वबोधिनी । समाप्तं तत्र पूर्वार्धं तेन तुष्यतु शंकरः ॥ इति श्रीपरमहंसपरिव्राजकाचार्य वामनेन्द्रस्वामिचरणारविन्दसेवकज्ञानेन्द्रसरस्वतीकृतौ सिद्धान्तकौमुदीव्याख्यायां तत्त्वबोधिन्याख्यायां पूर्वार्धं संपूर्णम् ॥

Loading...

Page Navigation
1 ... 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716