Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 680
________________ प्रकरणम् ४२ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६७७ मित्यर्थः । यथात्मीयमिति वा । २१५० द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमण्यज्ञपात्र प्रयोगाभिव्यक्तिषु । ( ८-१-१५) द्विशब्दस्य द्विर्वचनं पूर्वपदस्य श्रम्भावोऽस्वं चोत्तरपदस्य नपुंसकत्वं च निपात्यते एष्वर्थेषु । तत्र रहस्यं द्वन्द्वशब्दस्य वाच्यम् । इतरे विषयभूताः । द्वन्द्वं मन्त्रयते । रहस्यमित्यर्थः । मर्यादा स्थित्यनतिक्रमः । श्राचतुरं हीमे पशवो द्वन्द्वं मिथुनीयन्ति । माता पुत्रेण मिथुनं गच्छति, पौत्रेण प्रपौत्रेणापीति मर्यादार्थः । व्युत्क्रमणं पृथगवस्थानम् । द्वन्द्वं व्युत्क्रान्ता द्विवर्गसंबन्धेन पृथगवस्थिताः । द्वन्द्वं यज्ञ 1 नपुंसकह्रस्वत्वं च फलितम् । यथायथं ज्ञातेति । अत्र ज्ञातेति तृन्नन्तम् । तद्योगे 'न लोक -' इति षष्ठीनिषेधात्कर्मणि द्वितीया । तृजन्तत्वे तु यथायथस्य ज्ञातेत्येव । द्वन्द्वं रहस्य | पूर्वपदस्येति । द्वौ द्वाविति द्वित्वे कर्मधारयवत्वात् सुब्लुकि समुदायात् पुनः सुपि पूर्वपदावयवस्य इकारस्य अम् इति मकारान्तादेश इत्यर्थः । अत्वमिति । उत्तरपदस्य कारोऽन्तादेश इत्यर्थः । न च त्यदाद्यत्वमुत्तरपदान्तस्य सिद्धमिति वाच्यम्, संज्ञात्वात्तदप्राप्तेरित्याहुः । नपुंसकत्वं चेति । चकारः अनुक्तसमुच्चये । कृतद्वित्वस्य नपुंसकत्वं द्विवचनाभावश्चेत्यर्थः । श्राचतुरं हीति । आङभिविधौ । 'आमर्यादा -' इत्यव्ययीभावः । शरत्प्रभृतित्वात् टच् । चतुर्थान्तमिति फलितोऽर्थः । पशवः स्वप्रभृति चतुर्थपर्यन्तं द्वन्द्वं मिथुनीयन्ति इत्यन्वयः । मिथुनशब्देन मैथुनं विवक्षितम् । मिथुनस्य कर्म मैथुनम् । तदिच्छतीत्यर्थे 'सुप आत्मनः-' इति क्यच् । फलितमर्थमाह मिथुनं गच्छतीति । मिथुनत्वं प्राप्नोतीत्यर्थः । मिथुनायन्ते इति क्यङ्पाठस्तु प्रामादिकः । मर्यादीकृत्येति । स्वप्रभृति चतुरोऽभिव्याप्येत्यर्थः । श्रत्यन्तसहचरितत्वेन लोकविज्ञानमभिव्यक्तिरिति 'न लोका -' इत्यनेन कृद्योगषष्ठीनिषेधो ज्ञातेत्यस्य तृन्नन्तत्वात् । 'योयम् आत्मा' इत्यर्थे विद्यमानयथायथशब्दस्यार्थमाह यथास्वभावमिति । 'आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च' इत्यमरः । पूर्वपदस्येति । द्विद्विश्रौ इति स्थिते कर्मधारयवद्भावात्सुब्लुकि कृते पूर्वपदावयवस्ये कारस्येत्यर्थः । त्वमुत्तरपदस्येति । उत्तरपदावयवस्येकारस्येत्यर्थः । नपुंसकत्वं चेति । चकारादेकवद्भाव इत्यपि बोध्यम् । तेन 'अतोऽम्' इत्यमादेशे द्वन्द्वमिति सिध्यति । रहस्यं द्वन्द्वशब्दवाच्यमिति । द्वाभ्यां निर्वृत्ते रहस्ये योगरूढिरेवेत्यर्थः । द्वन्द्वं मन्त्र - यते इति । द्वौ द्वौ भूत्वा मन्त्रयेते इत्यर्थः । एवं हि तद् रहस्यं भवति । श्रच - तुरमिति । श्राङ् मर्यादाभिविध्योः' इत्यव्ययीभावः । 'अव्ययीभाव शरत्प्रभृतिभ्यः’ इति टच् । चतुःशब्दोऽत्र चतुर्णां पूरणे द्रष्टव्यः । श्रा चतुर्थादित्यर्थः । द्वन्द्वं

Loading...

Page Navigation
1 ... 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716