Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd
View full book text ________________
६७६ ] सिद्धान्तकौमुदी।
[द्विरुक्तइत्यादौ सोलुंक्च प्राप्तः । सर्व बाहुलकबलेन समाधेयम् । प्रकृतवार्तिकभाष्यो. दाहरणम्, 'स्त्रियाम्' (सू ४५३) इति सूत्रे 'अन्योन्यसंश्रयं स्वेतद्' इति भाष्यं चात्र प्रमाणमिति । २१४८ अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् । (८-१-१३) प्रियप्रियेण ददाति । प्रियेण वा । सुखसुखेन ददाति । सुखेन वा । द्विवंचने कर्मधारयवद्भावात्सुपो लुकि तदेव वचनम् । अतिप्रियमपि वस्वनायासेन ददातीत्यर्थः । २१४६ यथास्वे यथायथम् । (८-१-१४) यथास्वम् इति वीप्सायामव्ययीभावः । योऽयमात्मा यश्चात्मीयं तद्यथास्वम् । तस्मिन्यथाशब्दस्य द्वे क्लीबत्वं च निपास्यते । यथायथं ज्ञाता । यथास्वभावसोलुक् प्राप्त इत्यर्थः। सुभावविधानं तु अन्योन्यमित्यादावसमासे चरितार्थमिति भावः । ननु बहुलग्रहणादेतत् समाधयमित्यत्र किं प्रमाणमित्यत आह प्रकृतवार्तिकेति । 'स्त्रीनपुंसकयो:-' इति प्रकृतवार्तिके अन्योन्यमिमे ब्राह्मण्याविति, इतरेतरमिमे कुले इति चोदाहरणाद् 'दलद्वये टावभावः क्लीवे चाङ्विरहः स्वमोः' इति विज्ञायते । 'स्त्रियाम् इति सूत्रे अन्योऽन्यसंश्रयं त्वेतदिति भाष्यप्रयोगात् समासे सोरलुगिति विज्ञायत इत्यर्थः । प्रकृच्छे । कृच्छं कष्टम् । अकृच्छ्रम् अनायासः । तस्मिन्वर्तमानयोः प्रिय-सुख इत्यनयोः द्वे वा स्तः । कर्मधारयवद्भावादिति 'कर्मधारयवदुत्तरेषु' इत्यधिकारादिति भावः । 'समासवच्च बहुलम्' इत्यतः समासवदित्यनुवृत्तिस्तु न शङ्कया, तस्य वार्तिकस्थत्वात् । एवं च प्रियेणेत्यस्य सुखेनेत्यस्य च द्वित्वे सति कर्मधारयवत्त्वात् सुपोस्तृतीयैकवचनयो कि पुनः समुदायात् तृतीयैकवचनमिति फलितम । यथास्वे यथायथम् । वीप्सायामिति । कात्स्येन संबन्धो वीप्सेत्युक्तम् । स्वशब्दार्थगतकात्स्न्ये द्योये यथाशब्दस्य स्वशब्देनाव्ययीभाव इत्यर्थः । कृत्स्नश्वासौ स्वश्चेत्यस्वपदविग्रहः, नित्यसमासत्वात् । स्वशब्दस्तु आत्मात्मीयज्ञातिधनवाची। इह तु आत्मात्मीयवाच्येव गृह्यते, नतु ज्ञातिधनवाची, व्याख्यानादित्यभिप्रेत्य विग्रह. वाक्यस्य फलितमर्थमाह द्वे इति । स्त इति शेषः। निपातनादिति भावः । न च 'नित्यवीप्सयोः' इत्येव वीप्सया द्वित्वमिह सिद्धमिति शङ्कयम् , द्वित्वविषयस्य शब्दस्य लक्षणया कामविशिष्टे वृत्तावेव वीप्साया द्विवचनविधानात् । अन्यथा सर्वो घट इत्यादौ सर्वशब्दस्यापि द्वित्वापत्तेरिति भावः । क्लीबत्वमिति । यथायथा इति समुदायस्येति शेषः । अन्यथा अव्ययत्वादलिङ्गत्वं स्यादिति भावः । एवं च कृतद्वित्वस्य भाष्ये 'यां यां मन्येत सा भवत्' इत्येवोक्कमि त्याहुः । सोलुंक्च प्राप्त इति । सुपः खादेशविधानस्यान्योन्यं परस्परमित्यत्र केवले चरितार्थत्वादिति भावः । योऽयमात्मेत्यादि । आत्मात्मीययोरपि स्वशब्दवाच्यत्वात् । यथायथमिति ।
Loading... Page Navigation 1 ... 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716