Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 677
________________ ६७४ ] सिद्धान्तकौमुदी । [ द्विरुक्त इतरेतरं वा इमे ब्राह्मण्यौ कुले वा भोजयतः । श्रत्र केचित् - श्रामादेशो द्वितीयाया एव, भाष्यादौ तथैवोदाहृतत्वात् । तेन स्त्रीनपुंसकयोरपि तृतीयादिषु पुंवदेव रूपमित्याहुः । श्रन्ये तूदाहरणस्य दिया । म्रत्वात्सर्वविभक्तीनामामादेशमाहुः । "दलद्वये टावभावः क्लीबे चाविरहः स्वमोः । समासे सोरलुक्चेति सिद्धं श्राद्गुणे उत्तरपदस्थविभक्तेरनेन आम्भावे अन्योन्यामिति रूपम् । श्रभावविरहे तु पुंवत्त्वाट्टापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे पुंल्लिङ्गवदेव अन्योन्यमिति रूपम् । इयं ब्राह्मणी अन्य ब्राह्मणीं भोजयति, अन्या त्विमामित्येवं विनिमयेन ब्राह्मण्यौ भोजयत इत्यर्थः । इदं कुलं कर्तृ अन्यत्कुलं भोजयति, अन्यत्कुलं कर्तृ इदं कुलमित्येवं विनिमयेन कुले भोजयत इत्यर्थः । अत्रान्यच्छब्दस्य नपुंसकलिङ्गस्य द्वित्वे पूर्वपदस्थाया विभक्तेः सुभावे उत्तरपदस्थविभक्तेः श्रभावे अन्योन्यामिति रूपम् । श्रभावविरहे तु 'क्लीबे चाविरहः स्वमोः' इति वक्ष्यमाणतया पुंवत्त्वाद् अादेशाभावे अन्योन्यमिति पुंवदेव रूपमिति बोध्यम् । एवं स्त्रीत्वे परामिति पदस्य द्वित्वे दलद्वयेऽपि पुंवत्त्वात्टापो निवृत्तौ पूर्वोत्तरपदस्थविभक्त्योः क्रमेण सुभावे श्रम्भावे च परस्परामिति रूपम् । आम्भावविरहे तु द्वित्वे पुंवत्वाट्टापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे परस्परमिति रूपम् । नपुंसकत्वे तु परमित्यस्य द्वित्वे पूर्वपदस्थविभक्तेः सुभावे उत्तरपदस्थविभक्तेराम्भावे परस्परामिति रूपम् । श्रामभावे तु द्वित्वे पूर्वपदस्थविभक्तेः सुभावे परस्परम् इति रूपम् । इतरामित्यस्य द्वित्वे पुंवत्त्वाट्टापो निवृत्तौ उत्तरपदस्थ - विभक्तराम्भावे समासवत्त्वात् पूर्वपदस्थविभक्तेर्लुकि इतरेतरामिति रूपम् । ग्राम्भा विरहे तु इतरेतरमिति रूपम् । नपुंसकस्य तु इतरच्छब्दस्य द्वित्वे पुंवत्त्वादद्डादेर विरहे पूर्वपदस्थविभक्तेर्लुकि उत्तरपदस्थविभक्तेराम्भावतदभावाभ्यां रूपद्वयम् । अत्र भाष्यादौ द्वितीयाविभक्त्यन्त स्योदाहर णादितरविभक्तिषु श्राम्भावो न भवतीति प्राचीनमतमाह केचिदिति । तेनेति । द्वितीयेतर विभक्तिषु श्राम्भावविरहेणेत्यर्थः । पुंवदेवेति । श्रभावविरहे सति बहुलग्रहणात् पुंवत्त्वे टाबभावे प्रथमतृतीयादिविभक्तिषु पुंवदेव रूपम् । नपुंसकत्वे प्रथमतृतीयादिविभक्तिषु श्राम्भावविरहात् प्रथमैकवचनस्य इदं पुंवदेव रूपमित्यर्थः । सिद्धान्तमाह अन्ये त्विति । दिङ्मात्रत्वादिति । दिक्प्रदर्शनमात्रत्वादित्यर्थः । उपलक्षणत्वादिति यावत् । अथान बहुलग्रहणानुवृत्तेः प्रयोजनकथनपर प्राचीन श्लोकमाह दलद्वय इति । स्त्रीलिङ्गेष्वन्यपरेतरशब्देषु कर्मव्यतिहारे द्वित्वे सति पूर्वोत्तरखण्डयोः पुंवत्त्वाट्टान्निवृत्तिरित्यर्थः । यद्यपि इतरेतरमित्यत्र समासवत्त्वात् 'सर्वनाम्नो वृत्तिमात्रे -' इति पुंवत्त्वादेव पूर्वखण्डे टाबभावः सिद्धः, तथाप्युत्तरखण्डे टाबभावार्थं बाहुलकाश्रयणमिति भावः । क्लीब कयोस्तृतीयादिषु पुंवदिति प्राचो प्रन्थं परिष्कुर्वन्नाह श्रत्र केचिदिति । वस्तुस्थिति

Loading...

Page Navigation
1 ... 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716