Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 676
________________ प्रकरणम् ४२ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६७३ पदस्थस्य सुपः सुर्वक्तव्यः' ( वा ४७०० ) श्रन्योन्यं विप्रा नमन्ति । अन्योन्यौ । अन्योन्यान् । अन्योन्येन कृतम् । अन्योन्यस्मै दत्तमित्यादि । 'अन्योन्येषां पुष्करैरामृशन्तः' इति माघः । एवं परस्परम् । अत्र कस्कादित्वाद्विसर्गस्य सः । इतरेतरम् । इतरेतरेणेत्यादि । 'स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्लेराम्भावो वा वक्तव्यः' (वा ४७०१) श्रन्योन्याम्, अन्योन्यम् । परस्पराम्, परस्परम् । इतरेतराम्, द्वित्वम्, बहुलग्रहणादिति स्थितिः । असमासवद्भाव इति । इदमन्यपरशब्दयोरेव । इतरशब्दस्य समासवत्त्वस्यैवोक्तत्वात् । सुपः सुरिति । सुबिति प्रत्याहारः। सप्तानामपि विभक्तीनां पूर्वपदस्थानां प्रथमैकवचनं सु इत्यादेशो वाच्य इत्यर्थः । इदं द्वित्वादिविधानं प्रथमैकवचनमात्रविषयमिति केचित् । तदेतद्भाष्यविरुद्धम्, भाष्ये द्वितीयादिविभक्तेरुदाहृतत्वादित्यभिप्रेत्य द्वितीयादिविभक्ती रुदाहरति अन्योन्यं विप्रा नमन्तीत्यादि । इह अन्यम् अन्य इत्यादीनां द्वित्वे पूर्ववत्सुपः सुः । प्रथमैकवचनस्यैवेदं द्वित्वादीत्येतद् न कविसंमतमित्याह अन्योन्येषामित्यादि माघ इत्यन्तम् । परस्परमित्यत्र विसर्गस्य सत्त्वापवादमुपध्मानीयमाशङ्कय ह कस्कादित्वादित्यादि । इतरेतरमिति । इतर इतरावित्यादीनां द्वित्वे समासवत्त्वात् सुपोर्लुकि समुदायात् पुनः सुबुत्पत्तिरिति भावः । स्त्रीनपुंसकयोरिति । स्त्रीनपुंसकयोर्विद्यमानानाम् अन्यपरेतरपदानां कर्मव्यतिहारे द्वित्वे उत्तरपदस्थविभक्तेः आम् इत्यादेशो बहुलं वक्तव्य इत्यर्थः । अन्योन्यामित्यादि । अन्योन्याम् अन्योन्यं वा इमे ब्राह्मण्यौ कुले वा भोजयतः, परस्परां परस्परं वा इमे ब्राह्मण्यौ कुले वा भोजयतः, इतरेतराम् इतरेतरं वा इमे ब्राह्मरायौ कुले वा भोजयत इत्यन्वयः । तत्र अन्यामित्यस्य द्वित्वे दलद्वये टाबभाव इति वक्ष्यमाणतया पुंवत्त्वात् टापो निवृत्तौ समासवत्त्वाभावात्सुपोर लुकि पूर्वपदस्थविभक्तेः सुभावे रुत्वे 'अतो रोरप्लुतात् -' इत्युत्वे सुपः सुर्वक्तव्य इति । श्रत्र कैश्चिदुक्तं द्वितीयादीनामेवेदं स्वादेशविधानम् । अतएवोत्तरदलेsपि द्वितीयादय एव न तु प्रथमा, तत्राप्येकवचनमेव न तु वचनान्तरमिति । तदपाणिनीयम् भाष्यादावनुक्तत्वात् । तदेतद्ध्वनयन् वचनान्तरमुदाहरति अन्योन्यावन्योन्यानिति । माघ इति । स च भाष्यानुगुण एवेति भावः । एतेनार्वाचीनमतं कवयोऽपि नाद्रियन्त इत्युक्तं भवति । भारविश्वाह 'क्षितिनभः सुरलोकनिवासिभिः कृतनिकेतमदृष्टपरस्परैः' इति । अत्रादृष्टः परस्परो यैरिति विग्रहः । यदि तु द्वितीयादीनामेव स्वादेशविधानं न तु प्रथमायाः, तर्ह्ययं प्रयोगो न सिध्यदिति दिक् । अन्योन्यमिति । न चात्र आमभावेऽपि टाप् स्यादिति शङ्कम्, 'बहुलग्रहणााबभावः' इत्यनुपदमेव बक्ष्यमाणत्वात् । स्त्रीनपुंस 2

Loading...

Page Navigation
1 ... 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716