Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 675
________________ ६७२] सिद्धान्तकौमुदी। [द्विरुक्तद्वित्वामिदम् । पौनःपुन्येऽपि लोटा सह समुचित्य द्योतकतां लब्धं वा । 'कर्मव्यतिहारे सर्वनानो द्वे वाच्ये, समासवच बहुलम्' (वा ४७००)। बहुलग्रहणादन्यपरयोन समासवत् । इतरशब्दस्य तु नित्यम् । असमासवगावे पूर्वलोटो हिखौ-' इति लोट् । तस्य हि इत्यादेशः नाविकरणः । लुनीहीत्यस्य अनेन द्विवचनम् । 'यथाविध्यनुप्रयोगः पूर्वस्मिन्' इत्यनुप्रयोगः । तस्माल्लडादयः। अति. शयेन पुनर्वा लवनं लुनीहीति द्विरुक्तस्यार्थः । एककर्तृकं लवनमनुप्रयोगस्यार्थः । इतिशब्दस्त्वभेदान्वये तात्पर्य ग्राहयतीत्यादि मूल एव लकारार्थप्रकियागं स्फुटीभविष्यति । तथा च अतिशयितमेककर्तृकं लवनमिति फलितोऽर्थः । नित्येति।। 'नित्यवीप्सयोः' इति पौनःपुन्ये द्विवचने सिद्धऽपि भृशार्थे द्विवचनार्थमिदं वार्तिकमित्यर्थः। नन्वस्य भृशार्थ एव द्विवचनफलकत्वे 'भृशे च' इत्येव सेद्धे 'क्रियासमभिहारे' इति व्यर्थमित्यत आह पौनःपुन्येऽपीति । लुनीहिलुनीही यत्र पौनःपुन्ये लोटो द्विवचनस्य च समुच्चयार्थमिति यावत् । अन्यथा लोटैव पौनःपुन्यस्य द्योतितत्वात्तत्र नित्यवीप्सयोर्विचनस्य प्रवृत्तिर्न स्यादित्यर्थः । एवं च 'धातोरेकाचः-' इति पौनःपुन्ये यङन्ते पापच्यते इत्यादौ न द्विवचनमित्यन्यत्र विस्तरः। कर्मव्यतिहार इति । क्रियाविनिमयः कर्मव्यतिहारः, तस्मिन् गम्ये सर्वनानो द्वे स्तः । ते च द्विरुक्के पदे बहुलं समासवदित्यर्थः । अत्र 'बहुलम्' इति समासवदित्यत्रैवान्वेति । द्विवचनं तु नित्यमेव। अन्यपरयोरिति । अन्यशब्दपरशब्दयोरेव बहुलं समासवत्त्वम् । इतरशब्दस्य तु नित्यमेवेत्यर्थः । अत एव अन्यशब्दस्य समास्वत्त्वरहितमेव इतर. शब्दस्य तत्सहितमेवोदाहरणं भाष्ये दृश्यते । तथा 'परस्परोपादाच्च' इति वार्तिकप्रयोगात् परशब्दस्यापि समासवत्त्वाभावो गम्यत इति भावः। एवं च क्रियासमभिहारे अन्यशब्दस्य परशब्दस्य च नित्यं द्विवचनम् । द्विरुक्तयोस्तु सभासवत्त्वं बहुलम्। इतरशब्दस्य तु तदुभयमपि नित्यम् । एतत्त्रयव्यतिरिक्तसर्वनामशब्दस्य तु नेदं दिति भावः । पौनःपुन्य इति । पुनःपुनर्भवितरि वर्तमानात्पुनःपुनःशब्दाद् भावे प्रत्ययः । लोटा सह समुच्चित्येति । नन्वत्र लोटा सह समुच्चित्य यथा द्विवचनं भवति, तथा क्रियासमभिहारे यङि यडा सह समुच्चित्य द्विवचनं स्यात् पापच्यते पापच्यते, बोभूयते बोभूयते इति अत्राहुः-लोट् क्रियासनभिहारं व्यभिचरति। समुच्चयेऽपि जायमानत्वात् । ततश्च लोड्विर्वचनयोरेव तद्योतकत्वम् , न त्वेकैकस्येति युक्तं लोडन्तस्य द्विवचनम् । यङ् तु क्रियासमभिहारं न व्यभिचरतीति द्विवचनं विनव तस्य द्योतकत्वम् । तेन तदन्तस्य न द्विवचनमिति । कर्मव्यतिझर इति । क्रियाविनिमय इत्यर्थः । द्वे इति । नित्यमेवेदं द्वित्वम् , बाहुलकं तु समासवद्भावस्यैव।

Loading...

Page Navigation
1 ... 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716