Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 673
________________ ६७० ] सिद्धान्तकौमुदी। [द्विरुक्तवत् । 'कर्मधारयवदुत्तरेषु-' (सू २१४६) इत्यधिकारात् । तेन पूर्वभागस्य वद्भावः 'समासस्य' (स् ३७३४ ) इत्यन्तोदात्तत्वं च । पटुपट्वी। पटुपटुः । प्रकारशब्दः सादृश्ये वर्तते व्याख्यानादित्यभिप्रत्याह सादृश्ये द्योत्य इति । गुणवचनशब्देन 'श्रा कडारात्-' इति सूत्रस्थभाष्यपरिगणिताः शब्दा गृह्यन्त इति 'वोतो गुणवचनात्' इत्यादौ प्रपञ्चितमिदम् । तेनेति । कर्मधारयवत्त्वेनेत्यर्थः । पुंवद्भाव इति । 'पुंवत्कर्मधारय-' इत्यनेनेति शेषः । पटुपट्वीति । पट्वीशब्दस्य द्विर्वचने कर्मधारयवत्त्वात् 'पुंवत्कर्मधारय-' इति पूर्वखण्डस्य पुंवत्त्वे रूपमिति भावः । यद्यपि बहुव्रीहिवत्त्वेऽपि 'स्त्रियाः पुंवत्-' इति पुंवत्त्वादिदं सिद्धम् , तथापि कारिकेत्यादिकोपधादिष्वपि पुंवत्त्वार्थ कर्मधारयवदिति वचनमिति भावः । पटुपटुब्राह्मणसदृश इत्यवगमाच्च । तथापीह विवक्षितमाह सादृश्य इति । व्याख्यानमेवात्र शरणम् । पुंवदभाव इति । 'पुंवत्कर्मधारय-' इति सूत्रात् । तच्च कोपधादिष्वपि कालककालिकेत्यादिषु प्रवर्तते । तेन बहुव्रीहिवद्भावे प्रकृते कर्मधारयवद्भावोक्तिर्व्यथेति शङ्काया निरवकाश इति बोध्यम्। पटुपटुरिति । इह द्वित्वेन जातीयरो बाधो नेष्यते पटुजातीय इति वामनः। अन्यथा ब्राह्मणजातीय इत्यादावगुणवचनेऽपि भेदरूपेऽर्थे सावकाशो जातीयर् गुणवचनेषु सादृश्यपरेण द्वित्वेन बाध्येतेति भावः । गुणवचनस्येति किम् , अनिर्माणवकः, सिंहो माणवकः । यद्यपीहाग्निसिंहशब्दाभ्यां गौण्या वृत्त्या तैक्षण्यक्रौर्यादिगुणो गम्यते, तथापि प्रकारे वर्तमानस्येत्येव सिद्धे गुणवचनग्रहणसांम •द् मुख्यवृत्त्या गुणपराणामेव द्वित्वम् , न त्वन्येषामित्याकरः । 'नवं नवं प्रीतिरहा करोति' इत्यत्र वीप्सायां द्विवचनम् । अनेन तु द्विवचने सुब्लुक् स्यात् । 'नवनवा वनवायुभिराददे' इत्यत्र त्वनेनैव द्विवचनम्, न तु वीप्सायामिति पुंवद्भावः । कथं 'भीतभीत इव शीतमयूखः' इति भारविः । इवशब्देन सादृश्यस्योलतया इह प्रकारे द्वित्वायोगात् । सत्यम् , भीतेभ्यो भीत इति कथंचिद्याख्येयम् । तेनातिभीत इति फलितम् । 'आधिक्ये द्वे वाच्ये' इति वार्तिकेन भीतभीतादौ द्वित्वमिति दुर्घटादिभिरुक्तं समाधानं नादर्तव्यम् । तादृशस्य वार्तिकस्याप्रसिद्धत्वात् । अथ कथं 'खिन्नःखिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र। क्षीणःक्षीणः परिलघुपयः स्रोतसां चोपयुज्य' इति मेघदूतः । पदार्थभेदस्याभावेन वीप्सार्थस्यासंभवादिति चेत् । अत्राहुःएकस्यापि खेदावस्थासु क्षयावस्थासु च भेदं परिकल्प्य वीप्सा बोध्येति । अथ कथं 'मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम्' इति मेघदूतः। वीप्सार्थस्यासंभवादनेनैव द्विवंचने कृते 'मन्दमन्दमुदितः प्रययौ खम्' इतिवत्सुब्लुक् स्यादिति चेत् । सत्यम् , खतो मन्दगामिनं त्वां पवनो मन्दं नुदतीति कथंचियाख्येयम् । सिद्धस्य गतेश्चिन्त

Loading...

Page Navigation
1 ... 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716