Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 671
________________ ६६८ ] सिद्धान्तकौमुदी । [ द्विरुक्त वग्रहे विशेषः । 'न बहुव्रीहौ ' ( सू २२२ ) इत्यत्र पुनर्बहुधीहिग्रहणं मुख्य बहुव्रीहिलाभार्थम् । तेनातिदिष्टबहुव्रीहौ सर्वनामतास्स्येवेति प्राञ्चः । वस्तुतस्तु भाष्यमते प्रत्याख्यातमेतत् । सूत्रमतेऽपि बहुव्रीह्यर्थेऽलौकिके विग्रहे निषेधकम्, न तु बहुव्रीहावितीहातिदेशशङ्कव नास्ति । एकैकस्मै देहि । २१४५ श्रबाधे च । पूर्वस्यैवेदम्, 'नत्रैषाद्वा-' इति लिङ्गादित्युक्तत्वादिति बोध्यम् । नन् सुपोर्लुकि पूर्वखण्डस्य एकाशब्दस्य पुंवत्त्वे सत्यसति वा वृद्धौ एकैकयेति सिध्यत्येवेत्यत आह इह पूर्व . भाग इति । श्रवग्रह इति । समस्तपदम्य द्विधा करणे पूर्वखण्डः श्रवग्रहः । 'तस्य पूर्वोऽवग्रहः' इति प्रातिशाख्यम् । एकैकयत्येक एकया इतीष्यते पूर्वखण्डस्य पुंवत्त्वम् । बहुव्रीहिवत्त्वाभाव तु एकैकयेत्येका एकयेति स्यादिति भावः । तैत्तिरीयास्तु एकैकयेत्येका एकया इत्येवावगृह्णन्ति । एक समासवदित्येव सिद्धे बहुव्रीहिग्रहणं बहुव्रीहौ प्रकृत्या पूर्वपदमिति स्वरार्थम् । ननु बहुव्रीहिवत्त्वे सति 'न बहुव्रीहौ' इति सर्वनामत्वनिषेधादेकैकस्मै देहीत्यादौ कथं सर्वनामकार्यमित्यत प्राह न बहुव्रीहा वित्यत्रेति । 'विभाषा दिक्समासे बहुव्रीहौ' इत्यतो बहुव्रीहिग्रहणानुवृत्त्यैव सिद्धे 'न बहुव्रीहौ' इत्यत्र पुनर्बहुव्रीहिग्रहणं मुख्यबहुव्रीहिलाभार्थम् । अतो बहुव्रीहिवदित्यदितिष्टबहुव्रीहौ सर्वनामत्वनिषेधो नेत्यर्थः । तदाह तेनेति । तदेवं प्राचीनोक्लं परिहारमुक्त्वा सिद्धान्तिमतेनाह वस्तुतस्त्विति । एतदिति । 'न बहुव्रीहौ ' इति सूत्रमित्यर्थः । एवं च बहुव्रीहावपि सर्वनामत्वस्य भाष्यसंमत्तया बहुव्रीहिवत्त्वातिदेशे सत्यपि सर्वनामत्वं निर्बाधमिति भावः । सूत्रमतेऽपीति । उपसर्जनत्वादेव बहुव्रीहौ सर्वनामत्वनिषेधे सिद्धे 'न बहुव्रीहौ' इति बहुव्रीह्यर्थ के अलौकिक विग्रहवाक्ये एव समासात् प्राक् सर्वनामत्वं निषिध्यत इति प्रागेवोक्तम् । तस्मादिह बहुव्रीह्यतिदेशप्रयुक्तसर्वनामकार्याभावशङ्कैव नास्तीत्यर्थः । एकैकस्मै देहीति । इह द्वयोरपि द्विरुक्तार्थः संख्यान्तरे निराकाङ्क्ष इति प्रागेवोक्तत्वात् । पूर्वभाग इति । नतूत्तरभागेऽपि । तथाहि—द्विधात्र पुंवद्भावः 'सर्वनाम्नो वृत्तिमात्रे -' इति वा 'स्त्रियाः पुंवत् - ' इति वा । तत्राद्यः पूर्वभागस्यैव 'भत्रैषा -' इति ज्ञापकादित्युक्तम् । द्वितीयस्तु समानाधिकरणे परे विधीयते, न चोत्तरभागस्य समानाधिकरणपरत्वमस्तीति भावः । अवग्रहे विशेष इति । एकैकयेत्येकएकयेति भवतीत्यर्थः । एकैकस्मै इति । ननु सुब्लोपपुंवद्भावाविव बहुव्रीहौ सर्वनामसंज्ञाभावोऽपि दृष्ट इत्ययमपि बहु हिवद्भावेनातिदिश्यताम् । तथा च स्मायादेशोऽत्र दुर्लभ इति चेत् । अत्राहुः — मुब्लोपपुंवद्भावाविव सर्वनामसंज्ञाभावः शास्त्रेण न दृष्टः । किं तु बहुव्रीहे गौणत्वात्सर्ववाचकत्वं न संभवतीति तदभावो दृष्ट इति नायमतिदिश्यते । 'न बहुव्रीहौ' इति शास्त्रं त्वलौकिकवाक्ये

Loading...

Page Navigation
1 ... 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716