Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 672
________________ प्रकरणम् ४२] बालमनोरमा-तस्वबोधिनीसहिता। [६६६ (८-१-१०) पीडायां योत्यायां द्वे स्तो बहुव्रीहिवच । गतगतः । विरहात्पीड्यमानस्येयमुक्तिः । बहुव्रीहिवद्रावात्सुब्लुक् । गतगता । इह पुंवद्भावः । २१४६ कर्मधारयवदुत्तरेषु । (८-१-११) इह उत्तरेषु द्विवचनेषु कर्मधारयवत्कार्यम् । 'प्रयोजनं सुब्लोपवद्भावान्तोदात्तस्वानि' (वा ४६८६)।२१४७ प्रकारे गुणवचनस्य । (८-१-१२) सादृश्ये द्योत्ये गुणवचनस्य द्वे स्तस्तच कर्मधारय. सुपो कि पुनः सर्वादिपठितैकशब्दान्ततया सर्वनामत्वात् स्मैभाव इति भावः । आबाधे च । आबाधः पीडा। तदाह पीडायामिति । गतगत इति । प्रियां विना काल इति शेषः । श्राबाधं दर्शयितुमाह विरहादिति । स्त्रीवियोगादित्यर्थः। वहुव्रीहिवद्भावादिति । गत इत्यस्य द्विवंचने सति बहुव्रीहिवत्त्वात् समुदायस्य प्रातिपदिकत्वेन सुपोर्चुकि समुदायात् सुबुत्पत्तिरित्यर्थः । गतगतेति । प्रियेति शेषः । इयमपि स्त्रीविरहात् पीड्यमानस्योक्तिः । एकस्या एव गमनकाः द्विः कथनात् समानाधिकरणं स्त्रीलिङ्गमुत्तरपदमिति 'स्त्रियाः पुंवत्-' इति पुंवत्त्वम् , बहुव्रीहिवत्त्वादुत्तरपदत्वस्यापि सत्त्वात् । तदाह इह पुंवद्भाव इति । कर्मधारयवदुत्तरेषु । कार्य स्यादिति शेषः । कर्मधारयवत्त्वस्य फलमाह प्रयोजनमिति । सुब्लोपादीनां प्रत्येकान्वयाभिप्रायमकवचनम् । अन्तोदात्तत्वानीति । अनुदात्तं चेत्यधिकृतमपि भाष्यप्रामाण्यान्नात्र सम्बध्यत इति भावः । प्रकारे गुणवचनस्य । निषेधकम् , न तु बहुव्रीहावित्युक्तत्वादिति । आबाधे च । इहेति । बहुव्रीहिवद्भावादित्यनुषज्यते । तथा च स्त्रियाः पुंवत्-' इति प्रवर्तते । न च द्विरुक्तस्य परमुत्तरपदं नेति वाच्यम् , बहुव्रीहिवदित्यतिदेशबलेनैव उत्तरपदत्वस्यापि लाभात् । ननु बहुव्रीहिवद्भावेनोत्तरपदत्वलाभे सति ननेत्यत्र 'नलोपो नमः' इति कस्मान्न भवति । उच्यते'नलोपो नञः' इत्यत्र उत्तरपदे इति प्रवर्तते, नन इति च कार्यिणो निदशः, तत्र साक्षाच्छिष्टेन कार्यित्वेन नो निमित्तभावो बाध्यते । यथा मद्रहृदो भद्रह्रद इति । अत्र रेफस्य 'अचो रहाभ्याम्-' इति द्वित्वप्रसङ्गे आकरे उक्तं 'नमौ रहौ कार्यिणौ किं तु निमित्तमेतौ द्विवचनस्य' इति । नन्वेवमपि 'धूधूः' 'पन्थाःपन्थाः' इत्यादी 'ऋक्पूरब्धूर-' इति समासान्तः स्यादिति चेत् । न, 'समासाच्च तद्विषयात्' इत्यतः समासादित्यनुवर्तमाने 'समासान्ताः' इति पुनः समासग्रहणं हि समासाधिकारविहितो यः समासस्तत्परिग्रहार्थम् । तेनातिदेशिके समासे समासान्तानामप्रवृत्तिरिति दिक। कर्मधारयवदुत्तरेषु । अधिकारेणैव सिद्धे 'उत्तरेषु' इति वचनं विस्पष्टार्थमिति वृत्तिः । प्रकारे गुणववनस्य । यद्यपि प्रकारशब्दो भेदे सादृश्यै च वर्तते । बहुभिः प्रकारैर्भुते, बहुभिर्भेदैविशेषैरित्यवगमात् । ब्राह्मणप्रकारोऽयं माणवकः,

Loading...

Page Navigation
1 ... 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716