Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 678
________________ प्रकरणम् ४२] बालमनोरमा तत्त्वबोधिनीसहिता। [६७५ बाहुलकास्त्रयम्" । तथा हि-अन्योन्यं परस्परमित्यत्र दलद्वयेऽपिटाप्राप्तः।न च 'सर्वनानो वृत्तिमात्रे-' (वा) इति पुंवद्रावः, अन्यपरयोरसमासवद्भावात् । न च द्विवचनमेव वृत्तिः। 'यां यां प्रियः प्रेक्षत कातराती सा सा' इत्यादावतिप्रसङ्गात् । अन्योन्यमितरेतरम् इत्यत्र च 'अङ्तरादिभ्यः-(सू ३१५) इत्यड् प्राप्तः । 'अन्योन्यसंसक्कमहस्त्रियामम्' 'अन्योन्याश्रयः' 'परस्पराक्षिसादृश्यम्' 'अपरस्परैः' इति । अन्योन्यमित्यादौ अडादेशविरह इत्यर्थः । समासे सोरिति । कृतद्वित्वस्य अन्येन समासे पूर्वखण्डस्थस्येत्यर्थः । तथा हीति । यथेदं स्पष्टं भवति तथा उदाहृत्य प्रदर्यत इत्यर्थः। ननु पूर्वदले 'सर्वनाम्नो वृत्तिमात्रे-' इति पुंवत्त्वेनैव टानिवृत्तेः सिद्धत्वात् तद्विषये बहुलग्रहणं नादर्तव्यमित्याशङ्कय निराकरोति न चेति । 'सर्वनाम्नो वृत्तिमात्रे-' इति पुंवत्त्वस्यात्र न प्रसक्तिरित्यर्थः । कुत इत्यत आह अन्यपरयोरिति । 'समासवच्च बहुलम्' इति समासवत्त्वम् इतरशब्दमात्रविषयम् , न त्वन्यपरशब्दविषयमिति प्रागुतमित्यर्थः। ननु मास्तु समासवत्त्वम् , तथापि 'सर्वनाम्नो वृत्तिमात्रे-' इति पुंवत्त्वं दुर्वारम् । द्विवचनस्य वृत्तित्वादित्याशङ्कय निराकरोति नच द्विवचनमेव वृत्तिरिति । 'कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः' इति परिगणनादिति भावः। द्विवचनस्य वृत्त्यन्तर्भावे बाधकमाह यां यामिति । द्विवचनस्य वृत्त्यन्तर्भावे 'यां यां प्रियः प्रेक्षत कातराक्षी सा सा ह्रिया नम्रमुखी बभूव' इत्यत्र श्लोके यांया मित्यत्र सासेत्यत्र च 'सर्वनाम्नो वृत्तिमात्रे-' इति पूर्वखण्डस्य पुंवत्त्वं स्यादित्यर्थः । क्लीने चाड्विरह इत्यस्योदाहरति अन्योन्यमिति । ननु समासे सोरलुक् चेति कथम् , अन्यपरशब्दयोः समासवत्त्वाभावादित्याशङ्कय कृतद्वित्वस्यान्येन समासे पूर्वखण्डस्थस्य सोरलुगिति तदर्थमभिप्रेत्य तथैवोदाहरति अन्योन्यसंसक्त. मिति । अन्योऽन्येन संसक्तमिति तृतीयासमासः। अहश्च त्रियामा चेति समाहारद्वन्द्वः। अहश्च रात्रिश्च अन्योन्येन संयुक्तमित्यर्थः । अन्योन्याश्रय इति । अन्योऽन्यस्य आश्रय इति षष्ठीसमासः। परस्यराक्षिसादृश्यमिति । अक्षणा सादृश्यमक्षिसादृश्यम् । परस्परस्याक्षिसादृश्यमिति विग्रहः । अपरस्परैरिति । न परस्परे अपरस्परे तैरिति विग्रहे एषु कृतद्वित्वेषु समासावयवेषु पूर्वखण्डस्थस्य सुबादेशस्य माह अन्ये विति। अतिप्रसङ्गादिति। तथा च एकशेषप्रतिबन्धाद् द्विर्वचनस्यापि वृत्तित्वमाश्रित्य तद्वलेन पुंवद्भावो न शङ्कयो लक्ष्यविरोधात् । 'कारक चेद्विजानीयाद्यां यां मन्येत सा भवेत्' इति 'अकथितं-' सूत्रस्थ 'यांयाम्' इति भाष्यप्रयोगविरोधाच्चेति भावः । नव्यास्तु-'यांयां प्रियः प्रेक्षत-' इत्यादिमाघप्रयोगे 'सासा-' इति द्विवचनमयुक्तम् । द्विरुक्तार्थस्य सेत्यनेनैव परामष्टुं शक्यत्वात् । अत एव

Loading...

Page Navigation
1 ... 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716