Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 674
________________ प्रकरणम् ४२] बालमनोरमा तत्त्वबोधिनीसहिता। [६७१ पटुसहराः, ईषल्पटुरिति यावत् । गुणोपसर्जनद्रव्यवाचिनः केवलगुणवाचिनश्चेह गृह्यन्ते । शुक्लशुक्लं रूपम् । शुक्लशुक्लः पटः । 'मानुपूर्ये द्वे वाच्ये' (वा ४६६२)। मूले मूले स्थूलः । 'संभ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्धः' ( वा ५०५६) । सर्पः सर्पः, बुध्यस्व बुध्यस्व । सर्पः सर्पः सर्पः, बुध्यस्व बुध्यस्व बुध्यस्त्र । 'क्रियासमभिहारे च' (वा ४६६५) । लुनीहि लुनीहीत्येवायं लुनाति । 'नित्यवीप्सयोः' (सू २१४० ) इति सिद्धे भृशार्थे रिति । 'वोतो गुणवचनात्' इति ङीषभावे पुंसि च द्विवंचने रूपम् । पटुसदृश इति । इत्यर्थ इति शेषः । फलितमाह ईषत्पटुरिति । इह गुणवचनशब्दस्य गुणोपसर्जनद्रव्यवाचित्वमेवेति भ्रमं निरस्यति गुणोपसर्जनेति । शुक्लशुक्लं रूपमिति । शुक्लसदृशमित्यर्थः। ईषच्छुक्लमिति यावत् । एवं शुक्लशुक्लः पट इति बोध्यम् । आनुपूर्ण इति । अत्र वार्तिके कर्मधारयवदिति न संबध्यते, तदुदाहरणे भाष्ये सुब्लोपादर्शनादित्यभिप्रेत्योदाहरति मूले मूल इति । पूर्वपूर्वो मूलभाग उत्तरोत्तरमूलभागापेक्षया स्थूल इति यावत् । संभ्रमेणेति । वार्तिकमिदम् । संभ्रमो भयादिकृता त्वरा, तेन प्रवृत्ती गम्यमानायां यथेष्टम् इच्छानुसारेण अनेकधा शब्दः प्रयोक्तव्य इति वक्तव्यमित्यर्थः । अनेकधेत्युक्ते इति निवतेते। यथेष्टमित्युक्तेरसकृत्त्वेऽप्येकस्य प्रयोगः स्यादिति शङ्को निरस्यति न्यायसिद्ध इति । यावद्वारं प्रयोगे सति बोद्धा अर्थ प्रत्येति, तावद्वारमेव प्रयोगः । बोधात्मकफलपर्यवसायित्वाच्छन्दप्रयोगस्येत्यर्थः । एतच्च भाष्ये स्पष्टम् । अत्रापि कर्मधारयवत्त्वानतिदेशान्न सुब्लुक्, भाष्ये तथैवोदाहरणात् । क्रियासमभिहारे चेति । वार्तिकमिदम् । द्वे स्त इति शेषः । पौनःपुन्यं भृशत्वं च क्रियासमभिहारः । लोडन्तविषयमेवेदम्। 'क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः' इति सूत्रभाष्ये क्रियासमभिहारे लोण्मध्यमपुरुषैकवचनस्य द्वे भवत इति वक्तव्यमिति पाठमभिप्रेत्योदाहरति लुनीहिलुनीहीत्येवायं लुनातीति । 'लूम् छेदने' अस्मात् 'क्रियासमभिहारे लोट नीयत्वात् । शुक्लशुक्लमिति । केवलगुणवाचिन उदाहरणमिति ध्वनयति रूपमिति । आनुपूर्व्य इति । वीप्साभावादयमारम्भः । मूले मूल इति । अग्रेअग्रे सूक्ष्मा इत्यप्युदाहर्तव्यम् । एकस्य वस्तुनो वेणुदण्डादेरेकमेव मुख्यं मूलमग्रं च । इतरेषां भागानामापेक्षिकोऽप्रमूलव्यपदेशः । स्थौल्यसौक्ष्म्ये अपि नैकरूपे, किं तर्हि यथामूलमुपचीयते स्थौल्यम् , यथा अप्रं सौचम्यं तथा नेतरे भागा इति वीप्साया असंभवः । 'मूले मूले पथि विटपिनाम्' इत्यत्र तु वीप्सायां द्विवचनम् । एतच्च हरदत्तप्रन्ये स्पष्टम्। न्यायसिद्ध इति । यावद्भिः शब्दैः संबोध्योऽर्थमवगच्छति तावतां प्रयोकव्यत्वा

Loading...

Page Navigation
1 ... 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716