Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 628
________________ प्रकरणम् ४० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६२५ डतमच् । (५-३-६३) बहूना मध्ये निर्धारणे उतमज्वा स्यात् । 'जातिपरिप्रश्भे' इति प्रत्याख्यातमाकरे । कतमो भवतां कठः । यतमः । ततमः । वाग्रहणमकजर्थम् । यकः । सकः । महाविमाषया कः, यः, सः । किमोऽस्मिन्विषये रन्यतरः, तयोरन्यतर इत्यत्र किमादिभ्यो न भवति । वा बहूनाम् । 'किंयत्तद-' इति, 'निर्धारण' इति, 'एकस्य' इति चानुवर्तते । 'बहूनाम्' इति निर्धारणे षष्ठी। तदाह बहूनां मध्ये निर्धारणे डतमज्वा स्यादिति । मध्ये इत्यनन्तरमेकस्येति शेषः । जातिपरिप्रश्ने गम्ये इत्यपि बोध्यम् । जातिश्च परिप्रश्नश्चेति समाहारद्वन्द्वः । जातौ परिप्रश्ने च गम्ये इत्यर्थः । तत्र जाताविति किंयत्तदा सर्वेषामेव विशेषणम् । परिप्रश्नग्रहणं तु किम एव विशेषणम्, तच्च क्षेपार्थकस्य किमो निवृत्त्यर्थम् । यत्तदोस्तु परिप्रश्नग्रहणं न विशेषणम्, असंभवादिति वृत्तौ स्पष्टम् । अत्र वार्तिकम्-'किमादीनां द्विबह्वर्थे प्रत्ययविधानादुपाध्यानर्थक्यम्' इति 'पूर्वसूत्रे द्वयोरिति, अत्र सूत्रे जातिपरिप्रश्ने इति च न कर्तव्ये इति भावः' इति कैयरः । तदाह जातिपरिप्रश्न इति प्रत्याख्यातमाकर इति । क्षेपार्थस्य त्वनभिधानान ग्रहणमिति तदाशयः । पूर्वसूत्रे द्वयोरिति चेति बोध्यम् । तथाच 'कतम एषां पाचकः शूरो देवदत्तः' इत्यत्र क्रियागुणसंज्ञाभिरपि निर्धारणे डतमच भवति । 'एषां कतरो देवदत्तः' इत्यत्र बहूनामेकस्य निर्धारणे डतरच् भवति। अत एव 'प्रत्ययः' इति सूत्रभाष्ये 'बहुष्वासीनेषु कश्चित् कंचित्पृच्छति कतरो देवदत्तः' इति प्रयोगः संगच्छते । कतमो भवतां कठ इति । 'गोत्रं च चरणैः सह' इति कठस्य जातित्वम् । वाग्रहणमकजर्थमिति । अन्यथा महाविभाषया अपवादेन मुक्ते उत्सर्गस्याप्रवृत्तेरुक्तत्वादकच् न स्यादिति भावः । नच 'अव्ययसर्वनाम्नाम्-' इत्यस्याधिकारत्वात् तदनुवृत्त्यैव सिद्ध वाग्रहणं व्यर्थमेवेति वाच्यम् , इहैव सूत्रे तदनुवृत्तिः, नतु देवदत्तयज्ञदत्तौ' इत्यादावेव स्यात् । वा बहूनाम् । 'किंयत्तदः' इति वर्तते । जातिश्च परिप्रश्नश्चेति समाहारद्वन्द्वः । अत्र जातावितिसर्वेषां विशेषणम् । षष्ठीसमासे तु गुणभूतस्य जातिग्रहणस्य निष्कृष्य संबन्धोऽनुपपन्नः स्यात् । परिप्रश्नग्रहणं तु किम एव विशेषणम् । तच्च क्षेपनिवृत्यर्थम् । तत्र जातिग्रहणं प्रायोऽभिप्रायम् । क्रियागुणसंज्ञाभिरपि निर्धारणे डतमच इष्टत्वात् । तथा पूर्वसूत्रे द्वयोरिति प्रायोऽभिप्रायम् । बहूनां निर्धारणेऽपि डतरच इष्टत्वात् । तथा च वार्तिकम्-'किमादीनां द्विबह्वर्थे प्रत्ययविधानादुपाध्यानर्थक्यम्' इति । अत्र कैयट:-'द्वयोः' इति, 'जातिपरिप्रश्ने' इति च न कर्तव्यमिति भाव इति । तदेतदाह प्रत्याख्यातमाकर इति । कठ इति । कतमो भवतामध्यापकः शूरो देवदत्तो वेत्यप्युदाहतेव्यम् । यकः। सक

Loading...

Page Navigation
1 ... 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716