Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 660
________________ प्रकरणम् ४१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६५७ संपद्यते, जलीभवति लवणम् । 'एकस्या व्यक्तः सर्वावयवावच्छेदेनान्यथाभावः कास्यम्' । 'बहूनां व्यक्तीनां किशिदवयवावच्छेदेनान्यथात्वं त्वमिविधिः'।२१२५ तदधीनवचने । (५-४-५४ ) सातिः स्थास्कृभ्वस्तिभिः संपदा च योगे। राजसास्करोति, राजसास्संपद्यते । राजाधीनमित्यर्थः। २१२६ देये त्रा च। (५-४-५५) तदधीने देये वा स्यात्सातिश्च कृभ्वादियोगे। विप्राधीनं देयं करोति । विप्रनाकरोति । विप्रनासंपचते । पक्षे विप्रसास्करोति । 'देये' किम्राजसाद्भवति राष्ट्रम् । २१२७ देवमनुष्यपुरुषपुरुमत्र्येभ्यो द्वितीयासप्तम्योबहुलम् । (५-४-५६) एभ्यो द्वितीयान्तेभ्यः सप्तम्यन्तेभ्यश्च त्रा स्यात् । देवत्रा वन्दे रमे वा। बहुलोकेरन्यत्रापि । बहुना जीवतो मनः। २१२८ अव्यक्तानुकरणाद यजवरार्धादनिती डान् । (५-४-५७) यच् अवरं न्यूनम् , न तु ततोन्यूनम् , 'अनेकाच्' इति यावत् । तादृशमधं यस्य तस्माड्डाच् चिः, संपदा योगे तु सातेरभावे वाक्यमेव, नतु च्विः, कृभ्वस्तियोग एत तद्विधानादित्यर्थः । सम्पदा योगे उदाहरति अग्निसात्संपद्यत इति । कृभ्वस्तियोगे उदाहरति अग्निसाद्भवति शस्त्रमिति । अग्निसात्करोति अग्निसात्स्यादित्यप्युदाहार्यम् । कात्याभिविध्योर्विशेषमाह एकस्या व्यक्तरित्यादिना । तदधीन. वचने। शेषपूरणेन सूत्रं व्याचष्टे सातिः स्यादित्यादिना । 'अभूततद्भावे' इति निवृत्तमिति भावः । देये त्रा च । 'तदधीनवचने' इत्येवानुवर्तते। कृभ्वादियोग इति । कृभ्वस्तिभिः संपदा च योगे इत्यर्थः । देवमनुष्यपुरुषपुरुमर्येभ्यो द्वितीयासप्तम्योर्बहुलम् । एभ्य इति । देव, मनुष्य, पुरुष, पुरु, मर्त्य इत्येतेभ्य इत्यर्थः । अत्यन्तस्वार्थिकोऽयम् । 'साति' इति 'कृभ्वस्तियोगे' इत्यपि निवृत्तम् । देवत्रा वन्दे रमे वेति,। देवान् वन्दे, देवेषु रमे वेत्यर्थः । मनुष्यत्रा पुरुषत्रा । पुरुशब्दो बहुलपर्यायः । पुरुत्रा, मयंत्रा । अन्यत्रापीति । देवादिभ्यो. ऽन्यत्रापीत्यर्थः । बहुत्रा जीवतो मन इति । जीवतो जन्तोर्मनः बहुषु विषयेषु गच्छति बहून् व्याप्नोतीत्यर्थः । अव्यक्तानुकरणात् । यत्र ध्वनौ अकारादयो वर्णेविशेषा न व्यज्यन्ते सः अव्यक्तो ध्वनिः । तस्यानुकरणम् अव्यक्तानुकरणम् । धजवरार्धशब्दं व्याचष्टे द्यजिति । द्वावचौ यस्येति विग्रहः । अवरशब्दं व्याचष्टे शस्त्रमिति । जातावेकवचनम् । सर्वाणि शस्त्राणीत्यर्थः । वन्दे रमे वेति । देवान् वन्दे देवत्रा वन्दे । देवेषु रमे देवत्रा रमे इत्यर्थोऽत्र पयेवसन्नः । एवं मनुष्यान् गच्छति मनुष्यत्रा गच्छति। मनुष्येषु वसति मनुष्यत्रा वसति। पुरुषान् गच्छति पुरुषत्रा गच्छति । पुरुषेषु वसति पुरुषत्रा वसति । पुरुशब्दो बहुपर्यायः । पुरून् गच्छति पुरुषु वसति वा

Loading...

Page Navigation
1 ... 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716