Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 667
________________ ६६४ ] सिद्धान्तकौमुदी। [ द्विरुक्त भाभीषण्यं तिङन्तेष्वव्ययसंज्ञककृदन्तेषु च । पचति पचति । भुक्त्वा भुक्स्वा । आदेशौ स्त इत्यर्थः । तत्रावयवयोः पदत्वं स्वतःसिद्धम् । समुदायस्य तु पदद्वयात्मकस्य स्थानिवत्त्वात् सुबन्तत्वम् । तेन अपचन्नपचन्नित्यत्र मुट् , वृक्षान्वृक्षानित्यत्र 'पदान्तस्य' इति णत्वनिषेधः। अग्रेऽग्रे इत्यत्र 'एडः पदान्तात्-' इति पूर्वरूपं चेत्यादीन्यवयवानां पदकार्याणि सिध्यन्ति । पुनः पुनरिति समुदायस्य स्थानिवत्त्वेन सुबन्तत्वाद् भावे यत्रि, भवे ठमि च पौनःपुन्यम् , पौनःपुनिक इति च सिध्यति । द्वे उच्चारणे स्त इत्याश्रयणे तु सर्व पदं द्विरुच्चारयेदित्यर्थः फलितः स्यात् । ततश्च पुनरित्येकस्यैव द्विरुच्चार्यमाणस्य पुनः पुनरित्यादेशत्वाभावेन स्थानिवत्त्वाप्रसक्त्या सुबन्तत्वविरहात् तद्धितोत्पत्तिर्न स्यात् । तस्मादादेशपक्ष एव श्रेयानित्यास्तां तावत् । भाभीदायं तिङन्तेष्विति । भाभीक्ष्ण्यं पौनःपुन्यम् । तच्चेह प्रधानभूतकियाया एव । क्रियाप्राधान्यं चाख्यातेष्वस्तीति 'प्रशंसायां रूपप्' इति सूत्रे भाष्ये स्पष्टम् । अव्ययकृत्स्वपि क्त्वातुमुन्नादिषु क्रियाप्राधान्यम् , 'अव्ययकृतो भावे' इत्युक्तेः । तथा च तिङन्तेषु अव्ययसंज्ञककृदन्तेषु च पौनःपुन्यनिमित्तकद्विवचनं नान्यत्रे. कत्वात्पौनःपुन्यमित्यादि सिध्यत्येव । द्विःप्रयोगपक्षे त्वन्तरङ्गत्वादव्ययात्सुपो लुकि द्वित्वं प्रवर्तत इति समुदायस्य सुबन्तत्वाभावात् प्रातिपदिकत्वाभावाच्च यो न भवतः। न च 'अर्थवदधातुः-' इत्यादिना समुदायस्य प्रातिपदिकत्वे सोरुत्पत्तौ तस्य लुकि च सुबन्तत्वं प्रातिपदिकत्वं च संभवत्येवेति वाच्यम् , 'यत्र संघात पूर्वी भागः पदं तस्य चेद्भवति समासस्यैव' इति नियमेन प्रीतिपदिकत्वस्यासंभवेन सुवन्तत्वस्याप्य सम्भवात् । न च द्विःप्रयोगपक्ष स एव धातुः प्रत्ययश्च द्विः पठ्यते इति समुदायस्यापि पदसंज्ञा प्रवर्तते इत्यधुनैवोकत्वात्पुनःपुनरिति समुदायस्य सुबन्तत्वमस्त्येवेति शङ्कयम् अन्तरङ्गत्वात्सोलुकि प्रकृतिभागस्य द्विवचने सति यस्मात्प्रत्ययो विहितस्तदादि तदन्तमिति विधीयमानायाः पदसंज्ञायाः समुदायस्य दुर्लभत्वात् । ततश्चैकपद्याभावे 'पुनःपुनर्जायमाना पुराणी' इत्यादाववग्रहोऽपि न सिध्येदिति । अाभीदण्यमिति । तद्धि क्रियानिष्ठधर्मः। तेन तद्दयोतनार्थ द्वित्वं क्रियाप्रधानानामेव न्याय्यम् । क्रियाप्राधान्यं चाख्यातेऽस्ति, कृद्विशेष च, 'अव्ययकृतो भावे' इति वक्ष्यमाणत्वादिति भावः । केचित्तु क्रियाप्रधानानामेव द्वित्वे परिगृहीतसाधनाया एव क्रियाया व्यवहारोपयोगित्वात्तदभिधानाच धातुमात्रस्य द्वित्वं न भवति किंतु तादृशक्रियाभिधायिनः पदस्यैव स्यादिति पदस्यापकर्षणाभावेऽपि न क्षतिरित्याहुः । तचिन्त्यम् । उक्तरीत्या नानाकारकविशिष्टक्रियासमर्पकस्य वाक्यस्यैव द्वित्वापत्तेः । किं च भावार्थकलकारान्तानामव्ययकृतां व भवदुक्तरीत्या द्वित्वं न स्यात् । ननु तत्र नित्यतावगत्यनन्तरं पदान्तरैः साधनाकाक्षा

Loading...

Page Navigation
1 ... 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716