Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 658
________________ प्रकरणम् ४१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६५५ इति सूत्रे भाष्ये उनम्। २११६ क्यच्च्योश्च । (६-४-१५२ ) हलः परस्यापत्ययकारस्य लोपः स्यात्क्ये च्वौ च परतः। गार्गीभवति । २१२० च्वौ च । (७-४-१६) च्वौ परे पूर्वस्य दीर्घः स्यात् । शुचीभवति । पटूस्यात् । 'अव्ययस्य दीर्घत्वं न' इति केचित् , तन्निर्मूलम् । 'स्वस्ति स्यात्' इति तु महाविभाषया वेभावात्सिद्धम् । 'स्वस्तीस्यात्' इत्यपि पक्ष स्यादिति चेदस्तु । यदि नेष्यते तीनभिधानात् घिरेव नोत्पद्यत इत्यस्तु । 'रीतः' (सू १२३४)। मात्रीकरोति । २१२१ अर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च । (५-४-५१) एषां लोपः स्यात् च्चि श्व । अरूकरोति । उन्मनीस्यात् । उच्चस्करोति । उच्चती. वार्तिकम् 'अस्य च्यौ' इति सूत्रभाष्ये न दृश्यत इत्यत आह एतच्चेति । गार्गीभवतीति वक्ष्यन्नाह क्यच योश्च । 'अल्लोपोऽनः' इत्यस्माद् 'लोप' इति, 'हलस्तद्धितस्य' इत्यस्माद् 'हलः' इति, 'सूर्यतिष्य-' इत्यतः 'य' इति, 'आपत्यस्य च-' इत्यस्माद् 'यापत्य स्य' इति चान वर्तते, तदाह हलः परस्येति । गार्गीभवतीति । अगार्यो गार्यः संपर मानो भवतीत्यर्थः । यजन्तात् च्यौ यकारस्य लोपः । वेर्लोपः। यकारस्य तु 'आपत्यस्य च-' इति लोपो न संभवति, ईकारेण व्यवधानात् । 'हलस्तद्वितस्य' इत्यपि न स भवति। तस्य इति अर्थवत्येव विधानात् । अतो वचनमिति भावः । अथ शुचीभव गीति वक्ष्यन्नाह च्वौ च । दीर्घः स्यादिति । 'अकृत्सार्वधातुकयो:-' इत्यतः तदनुवृत्तेरिति भावः । अव्ययस्येति । अव्ययस्य 'च्वौ च' इति दी| नेत्यर्थः । न स्वस्ति स्यादित्यत्र च्चौ न दीर्घ इति भावः। तन्निर्मलमिति । भाष्यादावदृष्ट वादिति भावः। तर्हि स्वस्ति स्यादिति न स्याद् दीर्घप्रसङ्गादित्यत आह स्वस्तियादिति त्विति । ननु महाविभाषया दीर्घाभावे स्वस्ति स्यादिति सिद्धावपि कदाचित् स्वस्तीस्यादिति दी| दुर्वार इति शङ्कते स्वस्ती. स्यादित्यपि पक्षे सादिति । इष्टापत्तिरित्याह अस्त्विति । दीर्घतदभावाभ्यां रूपद्वयमिति शेषः । प्र माणिकत्वादुभयमप्यादर्तव्यमिति भावः । ननु शिष्टानङ्गीकारात् कथं दीर्घपाठादर इत्य। श्राह यदि नेष्यत इत्यादि। मातृशब्दात् विप्रत्यये विशेष माह रीत इति । अरुर्मनश्चक्षुः । एषामिति । अरुस् , मनस्, चक्षुस् , चेतस् , रहस् रजस् इत्येतेषामित्यर्थः। पूर्वेणैव प्रत्ययसिद्धस्तत्संनियोगेन सूत्रमध्ये प्रचिक्षेप । व्यन्तत्वादिति । तस्य निपातत्वात् 'स्वरादिनिपातमव्ययम्' इत्यनेनेत्यर्थः । गार्गीभवतीति । इह यान्तात् सुपि ततः विप्रत्यये कृते 'आपत्यस्य च तद्धितेऽनाति' इति यलोपो न भवति, ईकारेण व्यवधानादिति बोध्यम् । अरुमनः । विश्वेति । पूर्वेण सिद्धस्यापि च्वेरयमनुवादः । लोपस्तु तत्संनियोग

Loading...

Page Navigation
1 ... 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716