Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 664
________________ प्रकरणम् ४१] बालमनोरमा-तस्वबोधिनीसहिता। [६६१ करोति विप्रः । २१३८ मद्रात्परिवापणे । (५-४-६७) मद्रशब्दो मावार्यः । परिषापणं मुण्डनम् । मद्राकरोति । मानल्यमुण्डनेन संस्करोतीत्यर्थः । 'मद्राति वक्तव्यम्' (वा ३३४४)। भद्राकरोति । अर्थः प्राग्वत् । 'परिवापणे' किम्मद्रं करोति । भद्रं करोति । इति स्वार्थिकप्रकरणम् । इति तद्धिताः ॥ डाजिति शेषः । सत्याकरोति भाण्डमिति । रत्नादिद्रव्यजातमित्यर्थः। सत्यशब्दोऽत्र तथ्ये वर्तते। 'सत्यं तथ्यमृतं सम्यक्' इत्यमरः । क्रेतव्यमितीति । एतावतैव मूल्येन इदं क्रयणाई नातोऽधिकमूल्येनेत्येवं यथाभूतार्थ वदतीत्यर्थः । सत्यं करोति विप्र इति । शपथं करोतीत्यर्थः । मद्रात्परिवापणे । डाजिति शेषः । मद्रशब्दो मङ्गलार्थ इति । मङ्गलपर्याय इत्यर्थः । परिवापणं मुण्डनमिति । केशान्वपते इत्यादौ तथा दर्शनादिति भावः । माङ्गल्यमुण्डनेनेति । चौलेनेत्यर्थः । मद्रं करोति । भद्रं करोतीति । क्षेमं करोतीत्यर्थः । अत्र परिवापणस्याप्रतीतेने डाजिति भावः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां तद्धितप्रकरणं समाप्तम् । 'सत्येनोत्तभिता भूमिः' । 'ऋतं च सत्यं च' इत्यत्र तथा दर्शनात् । सत्याकरोतीति । भाण्डं रत्नादिद्रव्यजातम्। केतव्यमिति । मयैवैतद् प्रात्यमिति बुद्ध्या परीक्षादिना सत्यंकारद्रव्यप्रदानेन च दृढं करोतीत्यर्थः । तथ्यमिति । तथैव तथ्यम्। 'पादार्घाभ्यां च' इति चकारस्यानुक्समुच्चयार्थत्वात्स्वार्थे यत् । परिवापणमिति । कर्मव्यापारमात्रवाचिनो वपेहेतुमरिणचि ल्युडिति हरदत्तः। कर्मव्यापारः फलं तस्य कर्मनिष्ठत्वात् । यथा च फलमात्रवाचिन इत्यर्थः फलित इत्याहुः । माङ्गल्यमुण्डनेनेति । चौलदीक्षादौ । भद्राश्चेति । भद्रादित्यर्थग्रहणमिति व्याख्याने तु मङ्गलादिभ्योऽपि स्यादिति बोध्यम् । इति तद्राजाः । इति तत्त्वबोधिन्या तद्धितप्रक्रियाप्रकरणम् ।

Loading...

Page Navigation
1 ... 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716