Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd
View full book text ________________
प्रकरणम् ४१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६५३ वृत्तेन न चलतीत्यर्थः । क्षेपे-वृत्तेन क्षिप्तः । वृत्ततः क्षिप्तः । वृत्तेन निन्दित इत्यर्थः । 'प्रकर्तरि' इति किम्-देवदत्तेन चिप्सः । २११४ हीयमानपापयोगाश्च । (५-४-४७) हीयमानपापयुकादकर्तरि तृतीयान्ताद्वा तसिः । वृत्तेन हीयते । वृत्तेन पापः । वृत्ततः । क्षेपस्याविवक्षायामिदम् । क्षेपे तु पूर्वेण सिद्धम् । 'अकर्तरि' इति किम्-देवदत्तेन हीयते । २११५ षष्ठया व्याश्रये । (५-४-४८) षष्ठयन्ताद्वा तसिः स्यामानापक्षसमाश्रयणे । देवा अर्जुनतोऽ. भवन् । श्रादित्याः कर्णतोऽभवन् । अर्जुनस्य कर्णस्य पचे इत्यर्थः। 'व्याश्रये' किम्-वृक्षस्य शाखा । २११६ रोगाश्चापनयने। (५-४-४६) रोगवाचिनः षष्ठयन्ताद्वा तसिश्चिकित्सायाम् । प्रवाहिकात: कुहा प्रतीकारमस्याः कुर्वित्यर्थः । 'अपनयने' किम्-प्रवाहिकायाः प्रकोपनं करोति । २११७ कृभ्वस्तियोगे संपद्यकर्तरि च्विः । (५-४-५०) 'प्रभूतततद्भाव इति वक्तव्यम्' (वा३३४०) भयसंचलनयो.' इति चलनार्थाद् ल्युटि व्यथनशब्दः, तदाह अव्यथनमचलनमिति । क्षेप इति । उदाह्रियत इति शेषः । क्षेपो निन्दा । हीयमानपापयोगाच। हीयमानेति । हीयमानयुक्तात् पापयुक्ताश्चेत्यर्थः । ननु पूर्वसूत्रे क्षेपग्रहणादेव सिद्ध किमर्थमिदमित्यत आह क्षेपस्याविवक्षायामिति । तत्त्वकथन इत्यर्थः । षष्ठया व्याश्रये । नानापक्षसमाश्रयण इति । सर्वसाधारण्यं विहाय एकपक्षाश्रय इति यावत् । पक्षः स्वीयत्वेन परिग्रहः । देवा अर्जुनतोऽभवन्निति । अर्जुनस्य पक्षे देवा आसमित्यर्थः। आदित्याः कर्णतोऽभवन्निति । सूर्याः कर्णस्य पक्षे आसन्नित्यर्थः। रोगाश्च । रोगस्य प्रतीकारः चिकित्सा । प्रवाहिकात इति । विषूचिकाप्रतीकारमित्यर्थः । कृभ्वस्तियोगे । अभूतेति । येन रूपेण प्रागभूतं यद्वस्तु तस्य तद्रूपप्राप्तावित्यर्थः । एवं च यत्र प्रकृतिखरूपमेव विकाररूपमापद्यमानं विकाराभेदेन विवक्ष्यते, तत्रैवायं प्रत्यय इति लभ्यते । संपद्यकर्तरीत्येकं पदम्। संपदनं सम्पद्यः। संपूर्वकात्पदधातोरत एव निपातनाद् भावे कृत्संज्ञः शः, दिवादित्वात् श्यन् । संपद्यस्य कर्तेति षष्ठीसमासः । संपद्यमाने वर्तमानादिति यावत् । केन रूपेण कस्य संपत्तिरित्याकाङ्क्षायाम् , 'अभूततद्भावे-' इति वार्तिकात् प्रकृतेर्विकाररूपेण संपत्तिरिति लभ्यते । तत्र विकारवाचकादेव प्रत्ययः, नतु प्रकृतिवाचकात् , व्याख्यानात् । तथा वर्तत इति । प्रवाहिकात इति । प्रच्छर्दिकातः कुर्वित्याद्यप्युदाहरणम् । प्रवाहिका विषूचिका । प्रच्छर्दिका तु वमनव्याधिः । कृभ्वस्तियोगे । योग इति किम्, अशक्तः शुक्लो जायते । संपद्यकर्तरीति । संपद्यश्चासौ कर्ता चेति विग्रहः । 'पाघ्राध्माधेदृशः' इति विहितः शप्रत्ययोऽस्मादेव निपातनात्सम्पदोऽपि भवति ।
Loading... Page Navigation 1 ... 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716