Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 631
________________ ६२८ ] [तद्धितेषु स्वार्थिक सिद्धान्तकौमुदी । जीविकार्थासुदेवप्रतिकृतिष्विदम् । 'श्रपण्ये' किम् - हस्तिकान्विक्रीणीते । २०५५ देवपथादिभ्यश्च । ( ५-३ - १०० ) कनो लुप्स्यात् । देवपथः । हंसपथः । श्राकृतिगणोऽयम् । २०५६ बस्तेर्ढञ् । ( ५-३ - १०१ ) 'इवे' इत्यनुवर्तत त्यर्थः । एवं शिव इत्यादि । कथं प्रतिकृतेरविक्रेयाया जीविकार्थत्वमित्यत श्राह देवल कानामिति । प्रतिमां गृहीत्वा भिक्षार्थं प्रतिगृहमटता मेत्यर्थः । तत्तदायतनेषु 1 प्रतिष्ठितासु पूजार्थप्रतिमासु उत्तरसूत्रेण लुब्वदयते । हस्तिकान्विक्रीणीत इति । जीविकार्थं हस्तितुल्यप्रतिकृती: विक्रीणीत इत्यर्थः । अत्र पण्यत्वप्रतीतेः कनो न लुक् । 'संज्ञायां च' इति विहितस्य नायं लुप्, किन्तु 'इवे प्रतिकृतौ ' इति विहितस्यैव, भाष्ये प्रतिकृतावेव तदुदाहरणात् । पठन्ति चाभियुक्ताः 'रामं सीतां लक्ष्मणं जीविकार्थे विक्रीणीते यो नरस्त च धिग् धिक् । अस्मिन्पद्ये योऽपशब्दं न वेत्ति व्यर्थप्रज्ञं पण्डितं तं च धि धिक् ॥ इति । अत्र रामादिशब्दाः प्रतिकृतिषु वर्तन्ते । तासां चत्र पण्यतया कनो लुप् दुर्लभ इति रामसीतालक्ष्मणशब्दानामपशब्दत्वमित्याशयः । देवपथादिभ्यश्च । कनो लुप् स्यादिति । शेषपूरणमिदम् । 'इवे प्रतिकृतौ' इति विहितस्य देवपथादिभ्यः परस्य कनो लुप् स्यादिति यावत् । देवपथ इति । देवानां पन्था देवपथः । तत्प्रतिकृतिरित्यर्थः । 'इवे प्रतिकृतौ' इति कनो लुप् । एवं हंसपथः । अत्र वृत्तौ पठितम् - 'अर्चा पूजनार्था चित्रकर्मध्वजेषु च । वे प्रतिकृत लोपः कनो देवपथादिषु ॥ इति । अर्चाः प्रतिमाः । पूजार्थासु तासु चित्रकर्मसु ध्वजे देवपथादिगणपठितेषु इवे प्रतिकृतौ' इति विहितस्य कनो लुबित्यर्थः । ' तद्राजस्य -' इति सूत्रे कैयटोऽप्येतं श्लोकं पपाठ । अर्चासु यथा— शिवो विष्णुर्गणपतिरित्यादि : चित्रकर्मसु यथा---- रावणः कुम्भकरी इन्द्रजिदित्यादि । ध्वजेषु यथा— कपिः रुडो वृषभ इत्यादि पूजनासु गृहेष्वायतनेषु वा याः पूज्यन्ते तासु । चित्रकर्मध्वजाभ्यां तद्गताः प्रतिक्रतयो लक्ष्यन्ते। श्रर्चासूदाहरणम् - शिवः, विष्णुः । चित्रकर्म णि अर्जुनः, दुर्योधनः । ध्वजेषु—कपिः, गरुडः, सिंहः । सुवर्णसिंहमकरादयो राज्ञां ध्वजेषु सन्ति । हस्तिकानिति । ईदृशमेव विषयमभिप्रेत्य पठन्ति - 'रामं संतां लक्ष्मणं जीविकार्थे विक्रीणीते यो नरस्तं च धिग्धिक् । अस्मिन्पद्ये योऽपशब्दान्न वेत्ति व्यर्थप्रज्ञं पण्डितं तं च धिग्धिक्' इति । अयं भावः -- ' अपण्ये' इत्युक्तत्वात्पराये हस्तिकानितिवत् रामकं सीतिका लक्ष्मणकमिति प्रयोगा एव साधव इति । देवपथ इत्यादि । देवपथ 1

Loading...

Page Navigation
1 ... 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716