Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 633
________________ ६३० ] सिद्धान्तकौमुदी। [तद्धितेषु स्वार्थिकवधः । इह काकतालसमागमसदृशश्चोरसमागम इति समानार्थः । तत्प्रयुक्तः काकमरणसदृशस्तु प्रत्ययार्थः । अजाकृपाणीयः । अतर्कितोपनत इति फलितोऽर्थः । समस्यमानयावत्पदकात्समासादिवाथै छः स्यादिति लभ्यते । काकतालीयो देवदत्तस्य वध इति । काकः कश्चिदकस्मात् तालवृक्षस्य मृलं गतस्तालफलपतनान्भृतः । तथैव कश्चिद्देवदत्तः अकस्मानिर्जनप्रदेशे क्वचिद्गत चोरेण हतः, तत्रेदं वाक्यं प्रवृत्तम् । अत्र समासार्थगतं सादृश्यमेकम् , प्रत्ययार्थ गतम् अन्यत्सादृश्यं च भासते । तथाहि-काकागमनमिव तालपतनमिव काकतालमिति समासस्य विग्रहः । अत्र काकशब्दः काकागमनसदृशे देवदत्तागमने लाक्षणिकः । तालशब्दस्तु तालपतनसदृशे चोरागमने लाक्षणिकः । काकागमनसदृशं देवदत्तागमनं तालपतनसदृशं चोरागमनमिति च काकतालमिति समासाद्बोधः । यद्यप्यत्र काकतालशब्दयोः मिलितयोरेकत्रान्वयाभावाद् द्वन्द्वसमासो न संभवति, परस्परान्वयाभावेन असामर्थ्याच्च । तथापि अस्मादेव विधिबलात् 'सु सुपा' इति समासः । तथा च काकतालसमागमसदृशो देवदत्तचोरसमागम इति समासार्थः, तदाह इह काकतालसमागमसदृशश्चोरसमागम इति समासार्थ इति । अत्र चोरसमागम इत्यस्य चोरेण देवदत्तस्य समागम इत्यर्थः । तदेवंविधात्समासात् काकतालशब्दादिवान्तरार्थे सादृश्यान्तरे छप्रत्ययः । तत्र समासात्मककाकतालशब्दभूतप्रकृत्यर्थरूपकाकतालसमागमसदृशदेवदत्तचोरसमागमे सति तालपतनकृतकाकमरणे उपस्थिते उपमानत्वम् , देवदत्तवधे चोरागमनकृरे उपमेयत्वं च छप्रत्ययेन गम्यते । ततश्च तादृशचोरसमागमे सति तालपतनकृतकाकगरणसदृशो देवदत्तस्य चोरकृतो वध इति छप्रत्ययेन लभ्यते । तदाह तत्प्रयुक्त इति । तादृशतालपतनप्रयुक्त इत्यर्थः। सदृश इत्यनन्तरं देवदत्तवध इति शेषः । तथा च काकतालसमागमसदृशो देवदत्तचोरसमागमः, तद्धेतुकस्तालपतनकृतकाकमरणसदृशश्चोरकृतो देवदत्तवध इत्येवं काकतालीयो देवदत्तवध इति समासाद्वोधः। एतदेवाभिप्रेत्योक्तं भाष्ये 'काका. गमनमिव तालपतनमिव काकतालम् । काकतालमिव काकतालीयम्' इति । अत्र काकतालमिति इवार्थगर्भितकेवलद्वन्द्वाद् न भवति इवान्तरार्थस्य सादृश्यान्तरस्याप्रतीतेरित्यलम् । अजाकृपाणीय इति । अजागमनमिव पाणपतनमिव अजाधिकारात् । शस्त्रीश्यामत्यादौ तु एक एव इवार्थः । स च समासान्तर्भूत इति छो न भवत्युक्तार्थानामप्रयोगात् । काकतालीय इति । प्रकृत सूत्रादेव ज्ञापकादिवार्थे समासः । सुप्सुपेति वा । उभयथापि विशेषसंज्ञाविनिर्मुक्तः । स च छप्रत्ययविषय एव । तेनेह स्वातन्त्र्यमुपाध्यन्तरयोगो विग्रहश्च नेत्याकरः । इह काकतालेत्यादि ।

Loading...

Page Navigation
1 ... 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716