Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 648
________________ प्रकरणम् ४१] बालमनोरमा तत्त्वबोधिनीसहिता। [६४५ प्रतिदिश्यन्ते, चान्मयट् । मोदकाः प्रकृता मौदकिकम् , मोदकमयम् । शाकु. लिकम्, शकुलीमयम् । द्वितीयेऽर्थे मौदकिको यज्ञः, मोदकमयः। २०६१ अनन्तावसथेतिहभेषजाम्न्यः । (५-४-२३) अनन्त एव आनन्स्यम् । भावसथ एव पावसथ्यम् । इतिह इति निपातसमुदायः । ऐतिह्यम् । भेषजमेव भैषज्यम् । २०६२ देवतान्तात्तादर्थ्य यत् । (५-४-२४) तदर्थ एव तादर्थ्यम्। स्वाथै व्यस् । अभिदेवतायै इदमाभिदेवस्यम् । पितृदेवत्यम् । २०६३ पादार्घासमूहवत्प्रत्ययाः स्युरित्यर्थः । यद्वा बहुत्वविशिष्टानि प्राचुर्यविशिष्टानि वस्तूनि यस्मिनधिकरणे उच्यन्ते, तदधिकरणे वाच्ये तद्वस्तुवृत्तेः शब्दात् समूहवत्प्रत्ययाः स्युरित्यर्थः । आये उदाहरति मोदकाः प्रकृताः मौदकिकमिति । 'अचित्तहस्तिधेनोः-' इति सामूहिकष्ठक् । स्वार्थिकत्वेऽपि प्रकृतिलिङ्गातिक्रमः कुटीरवत् । शाकुलिकमिति । शकुल्यः प्रचुरा इत्यर्थः । पूर्ववट्ठक्, प्रकृतिलिङ्गातिक्रमश्च । द्वितीयेऽर्थे मौदकिको यज्ञ इति । मोदका अस्मिन्यज्ञे उच्यन्त इति विग्रहः । अनन्तावसथेतिह । अनन्त, श्रावसथ, इतिह, भेषज एभ्यः स्वार्थे ध्यप्रत्ययः स्यादित्यर्थः। अनन्त एवेति । अन्तो नाशः। तस्याभावः अनन्तः । अर्थाभावे नस्तत्पुरुषः, अभाव अव्ययीभावेन तद्विकल्पस्योकत्वात् । अानन्त्यमिति । खार्थिकत्वेऽपि प्रकृतिलिङ्गव्यतिक्रमः । श्रावसथो गृहम् । निपातसमुदाय इति । सच उपदेशपारम्पर्य वर्तते । तस्मात्स्वार्थे ज्यः । 'पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम् ।' इत्यमरः । भैषज्यमिति । भेषजम् औषधम् , तदेव भैषज्यम् । 'भेषजौषधभैषज्यानि' इत्यमरः । देवतान्तात्तादयें यत् । तदर्थ एवेति । तच्छब्देन देवतान्तस्यार्थ उच्यते, तस्मै अयं तदर्थः, ततः खार्थे चतुर्वर्णादित्वात् ष्यमित्यर्थः । देवतान्तात्प्रातिपदिकाद् यत्स्यात्प्रकृत्यर्थार्थे वस्तुनि वाच्य इत्यर्थः । त्यज्यमानद्रव्ये उद्देश्यविशषो देवता मन्त्रस्तुत्या चेत्युक्तं 'सास्य देवता' इत्यत्र । अतः पितृदेवत्यं रक्षोदेवत्यमित्यादौ नाव्याप्तिः, तदाह पितृदेवत्यमिति । देवताशब्दस्य देवा मनुष्या पितरः असुरा रक्षांसि पिशाचा इत्यादि श्रुतिपुराणादिप्रसिद्धजातिविशेषपरत्वे तु अत्राव्याप्तिः स्यादिति भावः । भाष्ये तु पितृदेवत्यमिति न अनं प्रकृतमुच्यते अस्मिन्नित्यर्थः । मौदकिकम् । शाकुलिकमिति । 'अचित्तहस्तिधेनोष्ठक्' । आवसथ इति । 'उपसर्गे वसे:' इत्यथप्रत्ययः । निपातसमु. दाय इति । उपदेशपारम्पर्ये वर्तते वचनाचाप्रातिपदिकादेव प्रत्ययः। ऐतिह्यमिति । 'इतिहाव्ययम्' इति कोशः । भेषजमिति । मिषज्यतेः कण्ड्वादियगन्तात्विवप् । भिषजामिदं भेषजम् । अस्मादेव निपातनादेकारः । पितृदेवत्यमिति । पितरश्च

Loading...

Page Navigation
1 ... 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716