Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 651
________________ ६४८] सिद्धान्तकौमुदी। [तद्धितेषु स्वार्थिक२१०० रक्त। (५-४-३२) लाक्षादिना रक्ने यो लोहितशब्दस्तस्मात्कन्स्यात् । 'लिङ्गबाधनं वा' (३३२२) इत्येव । लोहितिका, खोहिनिका शाटी। २१०१ कालाच्च । (५-४-३३ ) 'वणे चानित्ये' (सू २०१६ ) रक्त' (सू २१००) इति सूत्रद्वयमनुवर्तते । कालकं मुखं वैलक्ष्येण । कालकः पटः । कालिका शाटी। २१०२ विनयादिभ्यष्ठक । (५-४-३४) विनय एव वैनयिकः । सामयिकः। उपायाद्धस्वत्वं च' (ग सू १४४)। औपयिकः । २१०३ वाचो व्याहृता याम् । (५-४-३५) सन्दिष्टायां वाचि विद्यमानाद्वाक्छब्दास्वार्थे ठक् 'केऽणः' इति ह्रखे कन्नन्ताहापि लोहिनिकेति सिध्यति । सति तु कना डीपो बाधे लोहिताशब्दात् कनि 'केऽणः' इति ह्रस्वे टापि लोहितिकेति भवति । ननु 'ड्याप् प्रातिपदिकात्' इत्यत्र लिङ्गविशिष्टपरिभाषयैव सिद्ध व्याग्रहणं ड्यावन्तादेव तद्धिता भवन्ति, नतु ङयाम्भ्यां प्रागियेवमर्थमित्युक्तम् । एवं च डीपः प्राक् कनः प्रसक्केरेवाभावादिदं वार्तिकं व्यर्थमिति चेत्, अत एव वार्तिकाल्लिङ्गात्स्वार्थिकतद्धितेषु ड्याब्ग्रहणं न संवध्यते । न च सुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तात् 'कुत्सिते' इति सूत्रस्थभाष्यरीत्या स्वार्थद्रव्यलिङ्गसंख्याकारककुत्सादिप्रयुक्त कार्याणां ऋमिकतया यावन्तादेव सुपि ततः कनि रूपसिद्धवचनमिदं व्यर्थमिति वाच्यम् , अत एव स्वार्थिकतद्धितानां प्रातिपदिकादेव प्रवृत्तिविज्ञानादित्यन्यत्र विस्तरः। रक्ते । लाक्षादिना रक्ते पटादौ लौहित्यस्य यावद्रव्यमवस्थानेन नित्यतया पूर्वेणाप्राप्तौ वचनम् । कालाच्च । द्वयमनुवर्तत इति । अनित्ये वर्णे रक्ते च वर्तमानात्स्वार्थे कन्निति फलितम् । अनित्ये वर्णे उदाहरति कालकं मुखं वैलदयेणेति । लज्जासूयादिनेत्यर्थः । रक्त उदाहरति कालकः पट इति । नील्यादिनेति शेषः । विनयादिभ्यः। उपायाद ध्रस्वत्वं चेति । गणसूत्रमिदम् । उपायशब्दात्स्वार्थे क् । प्रकृतेर्दीघस्य ह्रस्वत्वं चेत्यर्थः । ह्रस्वस्य ह्रस्वविधौ वैयर्थ्यादीर्घस्येति गम्यते। बाचो व्याहृतार्थायाम । इदम् अस्य वक्तव्यमिति दूतं प्रति योऽर्थ उच्यते स व्याहृतः, व्याहृतः एनिकेत्यादेरपि संग्राह्यत्वात् । 'सुबन्तात्तद्धिताः' इति पक्षस्य 'निरवकाशत्वमपवादत्वम्' इति पक्षस्य च मुख्यत्वात्तदाश्रयणे तु 'वर्णादनुदात्तात्-' इत्यस्यानन्तरमेव कनः प्रवृत्तेः कन्प्रत्ययस्य पुंल्लिङ्गे सावकाशतया निरवकाशत्वाभावाच्च वार्तिकमिदं न कर्तव्यम् । अतएव ड्याबग्रहणं व्यर्थमिति स्वाम्पीति रूपं प्रबलमिति च ननोरमादावुक्तमिति दिक् । उपाय इति । उपायशब्दष्टकं लभते हखत्वं चेत्यर्थः । अकस्माच्छब्दोऽत्र पठ्यते स तु दान्तो न तु तान्तः । तेन कादेशो न. । 'अव्ययानां भमात्रे टिलोपः' । आकस्मिकम् । वाचो व्याहृता । व्याहृतार्थायां किम् , मधुरा वाग्देवदत्तस्य ।

Loading...

Page Navigation
1 ... 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716