Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 638
________________ प्रकरणम् ४१] बालमनोरमा-तत्त्वबोधिनीसहिता। [६३५ प्सायां वुन्लोपश्च । (५-४-१) लोपवचनमनैमित्तिकत्वार्थम् । भवो न स्थानिवत् । 'पादः पत्' (सू ४१४)। तद्धितार्थ-' (सू ७२८) इति समासे कृते प्रत्ययः । बुधयं सियामेव । द्वौ पादौ ददाति द्विपदिकाम् । द्विशतिकाम् । 'पादशतग्रहणमनर्थकम् , अन्यत्रापि दर्शनात्' (बा ३१४)। द्विमोदकिकाम् । वार्केण्यः, वार्केण्यौ, वृकाः । वृकाट्टेण्यणो लुक् । दामनीयः, दामनीयौ, दामनयः, कौण्डोपरथा इत्यादौ 'दामन्यादित्रिगर्तषष्ठात्' इति छस्य लुक् । पार्शवः, पार्शवी, पर्शवः, यौधेया इत्यत्र पर्वादियौधेयाषणमोलृक् । श्राभिजित्यः, आमिजित्यो, अभिजितः, विदभृत इत्यादौ अभिजिद्विदमृदित्यादिविहितस्य यो लुगिति भावः । __ इति तद्धितेषु पञ्चमाध्यायस्य तृतीयपादः समाप्तः। अथ पञ्चमाध्यायस्य चतुर्थपादप्रारम्भः । पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च । पादश्च शतं चेति समाहारद्वन्द्वाद् लोपापेक्षया षष्ठी । वुन्प्रत्ययापेक्षया तु सा पञ्चम्यर्थे । संख्यावाचकशब्दपूर्वकात् पादशब्दात् शतशब्दाच वीप्साविशिष्टार्थवृत्तः स्वार्थे वुन्प्रत्ययः स्यात् , प्रकृतेरन्त्यस्य लोपश्चेत्यर्थः। ननु वुनः अकादेशे सति 'यस्येति च' इत्येव लोपसिद्धेरिह लोपविधिर्व्यर्थ इत्यत आह लोपवचनमनैमित्तिकत्वार्थमिति । 'यस्येति च' इति लोपस्य परनिमित्तकतया तस्य 'अचः परस्मिन्-' इति स्थानिवत्त्वात् 'पादः पत्' इति पदादेशो न स्यात् । अस्य तु लोपस्य परनिमित्तकत्वाभावेन स्थानिवत्त्वाप्रसक्तेः पद्भावो निर्बाध इति भावः । तद्धितार्थ इति। नच वीप्सायाः प्रकृत्यर्थविशेषणतया वुनोऽर्थाभावात्कथमिह 'तद्धितार्थ-' इति समास इति वाच्यम् , वुनो द्योतकतया द्योत्यार्थेनैवार्थवत्त्वात् । वुन्नयं स्त्रियामेवेति । स्वभावादिति भावः । द्विशतिका. मिति । द्वे द्वे शते ददातीति विग्रहः। पादशतेत्यादि । वार्तिकमिदम् । अनर्थकमिति कथम् , पादशतभिनव्यावृत्त्यर्थत्वादित्यत आह अन्यत्रापि दर्शनादिति । एवं विदमृत्प्रभृतिभ्योऽणि तदन्तेभ्यो वैदमृत-शालावत-शैखावतादिभ्यो यञ् । पादशतस्य संख्यादेः। पादशतस्य किम् , द्वौ द्वौ माषौ ददाति । संख्यादेरिति किम् , पादं पादं ददाति। वीप्सायामिति किम् , पादौ ददाति । अनैमित्तिकत्वार्थमिति । निमित्ते भवो नैमित्तिकः, अध्यात्मादित्वाठञ् । तद्धितार्थ इति । यद्यपि प्रकृत्युपाधिर्वीप्सा, तथापि वुना द्योत्येऽति तद्धितार्थो भवत्येवेति भावः । ददातीति । समर्पणमात्रमिह ददातेरर्थः, न तु परखत्वापादनपर्यन्तम् । तथात्वे हि उत्तरसूत्रविषयत्वं स्यात् । केचित्तु व्यवसृजतेर्धातोः प्रयोगे सत्येव उत्तरसूत्रस्य प्रवृत्तिमाहुः । अन्यत्रापि दर्शनादिति । द्वौ द्वौ माषौ ददातीत्यादौ त्वनभिधानाभातिप्रसङ्ग इति

Loading...

Page Navigation
1 ... 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716